FAQ's :

किं संस्कृतं कठिना भाषा ?

केचन जनाः चिन्तयन्ति यत् संस्कृतं कठिना भाषा इति। तत्र कारणं ते जनाः कदापि संस्कृतं न श्रुतवन्तः एव। या कापि भाषा कठिना वा सरला वा भवति। भाषा सर्वदा सन्दर्भानुगुणं विनियोगानुगुणं च सरला अथवा परिपक्वा वा भवति। व्यावहारिकभाषा सर्वदा सरला भवति। सा एव साहित्ये विनियुज्यते चेत् प्रौढा दृश्यते । एवं तर्हि कथं जनानां संस्कृतं कठिनमिति भावना समुत्पन्ना? तत्र प्रधानं कारणं तु संस्कृतशिक्षणार्थं प्रयुक्तः शिक्षणविधिः । शताधिकवर्षाणि प्राथमिकस्तरात् विश्वविद्यालयस्तरं यावत् संस्कृतशिक्षणार्थं व्याकरणानुवादविधिः भारते समाश्रितः आसीत् । वस्तुतः सः विधिः भारतीयानां नास्ति अपि तु वैदेशिकानाम् । संस्कृतं हिन्दीमाध्यमेन अथवा आङ्ग्लमाध्यमेन अथवा अन्यप्रान्तीयभाषामाध्यमेन वा पाठयन्ति अधुनापि । इदमेव मूलकारणं संस्कृतस्य ईदृश्याः दुरवस्थायाः । अतः प्राथमिकस्तरात् एव संस्कृतं संस्कृतमाध्यमेन एव शिक्षणीयम् ।


किं संस्कृतं व्यावहारिकभाषा आसीत् ?

आम्, आरम्भे संस्कृतं सकलव्यवहारसाधनम् आसीत् । एतत् प्रमाणयन्ति नैकानि उदाहरणानि यानि व्याकरणमहाभाष्ये समुपलभ्यन्ते ।


तर्हि कथं संस्कृतम् अस्माकं नित्यव्यवहारात् च्युतम्?

संस्कृतह्रासस्य ऐतिहासिककारणानि बहूनि सन्ति । तत्र प्रान्तीयभाषाणां उद्भवः विकासश्चापि एकं कारणम् । वैदेशिकानां प्रशासने ते स्वकीयां भाषां राज्यभाषात्वेन आपादितवन्तः । तथैव सामाजिककारणानि अपि तत्र सन्ति, मध्यकाले जातानि तीव्रपरिवर्तनानि अपि संस्कृतस्य इदृशस्थितेः कारणीभूतानि । संस्कृते प्रमुखाघातः समजायत मैकॉले-शिक्षानीत्या ।


किं संस्कृतं कस्यचित् जातिविशेषस्य भाषा आसीत् ?

न, आरम्भात् संस्कृतं भारतीयानां जनसामान्यभाषा आसीत्। तत्र जाति-धर्म-सामाजिकस्तरभेदरहितमेवासीत्। आदिकविः वाल्मीकिः कश्चन व्याधः आसीत्। महान् कविः कालिदासः मेषपालकः आसीत्। महर्षिः व्यासः धीवरकन्यायाः जन्म प्राप्तवान्। राजानौ श्रीहर्षः भोजश्च क्षत्रियौ। एते विभिन्नजातिषु जाताः संस्कृते महान्तः कोविदाः। अतः संस्कृतं सर्वेषां भाषा आसीत् एव।

संस्कृतसम्भाषणाभियानस्य (The Movement of Conversational Samskrit) प्रामुख्यं एतदेव यत् अत्र विना भेदभावं सर्वेषां संस्कृतशिक्षणं भवति। जातिः, धर्मः, स्तरः, भाषा, प्रान्तः, वर्गः, स्थितिः इत्यादयः अत्र अवरोधाः न भवन्ति।


यदि संस्कृतं दैनन्दिनव्यवहारभाषा भवेत्, तर्हि हिन्द्याः अन्यभारतीयभाषाणां च का स्थितिः भवेत्?

तेन अवश्यं हिन्द्याः अन्यभारतीयभाषाणाञ्च महान् विकासो भविष्यति। संस्कृतं भारतीयभाषाणां शक्तिसंवर्धिका। संस्कृतं हिन्दी, तेलुगु, मराठी, गुजराती, बंगला पञ्जाबी इव कस्याः अपि भाषायाः विकल्पः न अपि तु पूरकभाषा एव। संस्कृतस्य विशिष्टं किञ्चन स्थानम् अस्ति। संस्कृतं सर्वप्रान्तानां तथा सम्पूर्णभारतीयसंस्कृतेः भाषा अस्ति। संस्कृतं कस्याः अपि भाषायाः प्रतिस्पर्धां न करोति।


संस्कृतं अध्येतुं कियान् कालः आवश्यकः ?

समयः तु भवान्/भवती अभिरुच्या कियान्तं समयं ददाति इति विषयमाधारीकरोति। सम्भाषणपद्धत्या यदि अधीते तर्हि भवान्/भवती द्वित्रमासाभ्यन्तरे सम्भाषितुं शक्नोति। दशदिनसम्भषणशिबिरे(प्रतिदिनम् होराद्वयम्) भागं गृहीत्वा सम्भाषणसन्देशमासपत्त्रिकया भवतः/भवात्याः भाषायाः दृढतां सम्पादयितुं शक्ष्यति।


किं संस्कृतस्य सरलीकरणमावश्यकम् ?

नास्ति। संस्कृतस्य सरलीकरणम् अनावश्यकम्। सरलसंस्कृते संस्कृतस्य सरलीकरणे च महदन्तरम् अस्ति। संस्कृतस्य सरलीकरणं नाम अधुना विद्यामानानां कतिचननियमानां त्यागः। यदि तथा क्रियते (तर्हि) भाषायां विरूपता आयाति। तद्वयं नेच्छामः। अस्माकं मुख्यलक्ष्यं तावत्, संस्कृतस्य पाणीनीयत्वस्य संस्कृतत्वस्य च संरक्षणम्। नित्यव्यवहारे सारल्यतामानेतुं संस्कृतभाषायां पाणिनीयव्याकरणे च लघुमार्गाः सन्ति। तेषां मार्गाणाम् अनुसरणेन सरलसंस्कृतस्य शिक्षणं भवति।


सर्वकारपक्षतः हिन्दीभाषायाः बहोः कालात् महान् परिश्रमः विहितः, चेदपि तस्य प्रभावः अल्पः वर्तते। एवं तर्हि किं संस्कृतशिक्षणं साधयितुं शक्यते?

संस्कृतशिक्षणं नूतनभाषाशिक्षणम् इव कठिनं नास्ति यतः अन्यभारतीयभाषासु सर्वासु संस्कृतभाषापदानि वयम् अवलोकयामः एव। भारतीयभाषासु वाक्यरचनाप्रकारः अपि संस्कृतभाषायाः इव समानः एव। अन्यच्च सर्वेषामपि भारतीयानां स्वजीवने परम्परया संस्कृतश्रवणसंस्कारः अस्ति। अतः वयं भावयामः यत् प्रत्येकं भारतीयस्य संस्कृतभाषया सह पूर्वसम्पर्कः अस्ति एव। शिक्षितेषु भारतीयेषु २०% जनाः स्वशालाशिक्षणसन्दर्भे संस्कृतम् अधीतवन्तः एव। अतः ते अल्पेन प्रयासेन अवश्यमेव संस्कृतेन सम्भाषितुं शक्नुवन्ति। अपि च भारते कस्मिन्नपि कोणेऽपि संस्कृतभाषायाः विरोधः नास्त्येव। अतः गत २०० वर्षेषु आङ्ग्लभाषायाः प्रचारप्रसार्थं व्ययीकृते धने १% अपि संस्कृतार्थं व्ययीक्रियते, चेदपि निस्सङ्कोचं दशगुणितं फलं प्राप्तुं शक्यते।


संस्कृतस्य भविष्यत् किम्?

संस्कृतस्य भविष्यत् महत् अस्ति। संस्कृतच्छात्रसंख्या प्रतिदिनं वर्धते सम्पूर्णभारते। अधुना विश्वे ३५ देशेषु संस्कृतं पाठयन्ति। संस्कृतसम्बद्धशोधकार्यम् अधुना ११० शोधकेन्द्रैः स्वीकृतम्। सङ्गणकविशेषज्ञाः अधुना संस्कृताध्ययनम् आरब्धवन्तः यतः सङ्गणकार्थं संस्कृतं सुयोग्यभाषात्वेन अभिज्ञातम्। अधुना ९० लक्षजनाः भारते संस्कृतं पठन्ति। अधुना १५ संस्कृतविश्वविद्यालयाः सन्ति भारते। अग्रिमे ५-१० वर्षेषु संस्कृतस्य परिलक्षितपरिवर्तनम् अवश्यमेव भविष्यति। विज्ञाः अधुनैव वदन्ति यत् संस्कृतस्य विकासः अरब्धः एव, एकविंशः शताब्दः संस्कृतस्यैव अस्ति इति।

अधिकाधिक-प्रयत्नाः कृताः | 24 होरानन्तरं पुनः प्रयतताम् |