Top
वार्तानां पूर्वावलोकनम्

संस्कृतभारत्याः देहलीप्रान्तेन आयोजितः शिक्षकप्रशिक्षणवर्गः
अयि भोः संस्कृतानुरागिणः
संस्कृतभारत्याः देहलीप्रान्तेन संस्कृतस्य संस्कृतमाध्यमेन पाठनकौशलविकासाय भाषाविकासाय च शिक्षकप्रशिक्षणवर्गः आयोजयिष्यते । संस्कृतानुरागिणः भवन्तः वर्गेऽस्मिन् समुपस्थाय अवसरम् एतं सदुपयुक्तं कुर्वन्तु इति विनिवेदनम् ।
तिथिः
२ जून २०१८ सायं ६.०० वादनतः १३ जून प्रातः ९.०० वादनपर्यन्तम्

वर्गस्थानम्
श्रीरमशिक्षामन्दिरम् सीनियर-सेकेण्ड्री-स्कूल जिन्दपुरम् दिल्ली- ११००३६

मार्गविवरणम्
निकटवर्ति-मेट्रोस्थानकं बादलीमोड़ ( हैदरपुरम् ) उत जहांगीरपुरी । वसयानेन अलीपुरस्थ-एस डी. एम-कार्यालयसमीपे अवतीर्य बैट्रीरिक्शाद्वारा जींदपुर श्री राममशिक्षामंदिरं प्राप्तुं शक्यते ।

प्रवेशार्हता
संस्कृतसम्भाषणसमर्थाः प्रविष्टसंवादशालाः चालितसम्भाषणशिविराः प्रविष्टावासीयवर्गाः च ।

सम्पर्कसूत्रम् संस्कृतभारती-देहली
२५ दीनदयाल- उपाध्याय- मार्गः नई दिल्ली- ११०००२ 9013001972 8385945895

व्यक्तित्वविकासाय

भाषासौष्ठसम्पादनाय

नेतृत्वगुणानां विकासाय

संस्कृतशिक्षणक्षेत्रे आधुनिकपद्धतीनां

तथा च तन्त्राणाम् अवगमनाय

एषः महत्तमः अवसरः ।

शिक्षकप्रशिक्षणवर्गे भागः उद्यताम् ।

संस्कृतसम्भाषणशिविराणि

विविधसंस्कृतकक्ष्याः च सञ्चाल्यन्ताम्

पञ्जीयनशुल्कम्
रू. 800/-
वर्गनियमाः
गमनागमनव्ययः वर्गार्थिभिः एव निर्वोढव्यः ।
दैनन्दिनवस्तूनि शय्यावस्त्राणि भोजनपात्राणि दैनन्दिन- औषधानि च स्वयम् आनेतव्यानि ।
02.06.18 दिनाङ्के शनिवासरे सायं 6 वादनात पूर्वम् एव वर्गस्थानं प्राप्तव्यम् । आगमनसूचना 28 मे-पर्यन्तम् अवश्यमेव दातव्या । 13.06.18 दिनाङ्के प्रातः 9 वादनानन्तरं स्वस्थानं प्रति गन्तुं शक्यते । विलम्बेन आगतवतां वर्गे प्रवेशावसरः न भविष्यति ।
वर्गार्थिभिः दशदिनानि अपि अहोरात्रं वर्गस्थाने उपस्थितैः भाव्यम् ।
वर्गारम्भतः समाप्तिं यावत् बहिर्गमनं निषिद्धम् ।
शिविरे बहुमूल्यवस्तूनां दूरवाण्याः च प्रयोगः निषिद्धः ।
अतिरिक्तं धनादिकं प्रथमदिने एव कार्यालयस्य अधिकोषे स्थातनीयम् ।
परिसरस्य अपवित्रया संस्कृतेतरभाषया व्यवहारः नियमानामुल्लङ्घनम् इत्यादिभिः कारणैः प्रशिक्षार्थी शिविरात् बहिष्कृतः स्यात् ।
प्रशिक्षणात् परं स्वस्थाने सम्भाषणशिविरस्य अन्यविध-संस्कृतकक्ष्यायाः वा सञ्चालनस्य मान्सिकता स्यात् ।

वर्गस्य वैशिष्ट्यानि
अहोरात्रम् अखण्डं संस्कृतवातावरणम् ।
संकृतसम्भाषणशिविरस्य अन्यविधकक्ष्यायाः वा सञ्चालनस्य प्रशिक्षणं परिकल्पना च ।
नूतनभाषाभ्यासिभ्यः प्राप्तप्रशिक्षणेभ्यः च पृथक्-पृथक् प्रशिक्षणम् ।
भाषाशिक्षणक्षेत्रे आविष्कृतानाम् अत्याधुनिकपद्धतीनां तन्त्राणां च परिचयः प्रत्यक्षप्रयोगश्र्च ।
संस्कृतकार्यस्वरूपस्य समग्रः परिचयः ।
करणीएयानां संस्कृतकार्याणां विषये ज्येष्ठानां मार्गदशनम् ।
संस्कृत-संस्कृतिसम्बद्धाः अन्ये बहवः विषयाः ।
संस्कृतभारत्याः सर्वविधानि पुस्तकानि उपलभ्यन्ते ।.


  • द्वारा स्थापितम् - देहली
  • |
  • 15-05-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,