Top
वार्तानां पूर्वावलोकनम्

संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट
श्रावणपूर्णिमा संस्कृतदिनम् इति १९६९तमे वर्षे केंद्र सर्वकारेण उद्घोषितम्। २००१तमे वर्षे संस्कृतसप्ताहः घोषितः। अस्मिन्वर्षे एषः सप्ताहः ३१ जुलैतः ६ ऑगस्टयावत् अस्ति। ३ ऑगस्टदिनाङ्के संस्कृतदिनं वर्तते। संस्कृतभारती प्रतिवर्षं सप्ताहम् आचरति।
विविधाः उपक्रमाः कार्यक्रमाः च तन्निमित्तं भवन्ति।
अस्मिन्वर्षे प्रचाराभियानं निश्चितमस्ति। संस्कृतं सर्वेषां संस्कृतं सर्वत्र इति उद्घोषणं मनसि निधाय निर्मिता अस्ति एषा योजना! संभाषणं पठितुं स्तोत्राणि सुभाषितानि च पठितुं गीताम् अध्येतुं बालानां कृते उद्योगिनां कृते च अत्र उपक्रमाः सन्ति।
सर्वे संस्कृतप्रेमिणः अस्यां योजनायां सहयोगं कुर्युः।
प्रतिदिनं विषयः समयः हॅशटॅग च निश्चितः अस्ति। सर्वे सोशलमिडियामध्ये वृत्तपत्रेषु च लिखन्तु। प्रत्येकं जनपर्यन्तं संस्कृतं नयामः। सर्वेभ्यः तदर्थं शुभाशयाः!!

** प्रतिदिनं भिन्नं यथा

३१ जुलै - #पत्रालयसंस्कृतम्

१ऑगस्ट - #सरलसंस्कृतपरीक्षा

२ ऑगस्ट - #संभाषणशिबिरम्

३ ऑगस्ट - #गीताशिक्षणकेन्द्रम्
#संस्कृतदिनम्

४ ऑगस्ट - #बालकेन्द्रम्

५ऑगस्ट - #पठनकेन्द्रम्

६ ऑगस्ट - #संस्कृतकुटुम्बम्*

अवधिः - सायं. ४-०० तः ६-००*.


  • द्वारा स्थापितम् - संस्कृतभारती
  • |
  • 30-07-2020
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,