देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः
संस्कृतं भारतस्य आत्मा वर्तते।वयं जानीमः संस्कृतकारणादेव भारतस्य गौरवं सम्पूर्णविश्वे सदैव वर्धितम् अतः अद्यावधिपर्यन्तं संस्कृतभारती-माध्यमेन लक्षाधिकाः जनाः संस्कृतसम्भाषणशीलाः जाताः। संस्कृते निहितज्ञानविज्ञानस्य दिग्दर्शनं विज्ञानप्रदर्शिनीभिः संस्कृतविश्वस्य विश्वस्तरीयं दिग्दर्शनं च कारयति संस्कृतभारती। संगठनस्य माध्यमेन भारते पंच ग्रामेषु संस्कृतमयं वातावरणं वर्तते अतः ते संस्कृतग्रामाः अभवन्। संगठनस्य प्रयत्नेन सहस्राधिकाः संस्कृतपरिवाराः वर्तन्ते येषु सर्वे गृहजनाः संस्कृतेन एव भाषन्ते। संस्कृतस्य रक्षणेन एव भारतीय-संस्कृतेः संरक्षणंं भविष्यति यस्य राष्ट्रस्य संस्कृतिः सुदृढा भवति तत् राष्ट्रं समर्थराष्ट्रं भवत्येव यतो हि संस्कृते निहितज्ञानस्य आत्ममन्थनेन नैतिकमूल्यानि वर्धन्ते सामाजिक-विकृतयश्च निश्चयेन दूरे भवन्ति। अतः सम्भाषणशिविरैः संस्कृतबालकेन्द्रैः साप्ताहिककक्षाभिः पत्राचारशिक्षणद्वारा च गेहे-गेहे संस्कृतं भवेत् एतदर्थं संस्कृतभारतं_समर्थभारतम् इति उद्घोषं कुर्वन्तः संस्कृतभारती-कार्यकर्तारः संस्कृतकार्यं वर्धयितुं नवाचारं च आनेतुं समस्तराष्ट्रे संस्कृतमयवातावरणनिर्माणाय संस्कृतक्षेत्रे नवीनकल्पनादानाय संस्कृतं सर्वेषां कर्तुं संस्कृतं सर्वत्र नेतुं सम्पूर्णविश्वे प्रयत्नशीलाः दृश्यन्ते। अतः सर्वैः कार्यकर्तृभिः समवेतरुपेण चिन्तनाय संस्कृतभारती-देहलीद्वारा श्रीलालबहादुरशास्त्रिराष्ट्रिय-संस्कृतविद्यापीठे दिसम्बरमासस्य 28 29 30 तमेषु दिनांकेषु आयोज्यते *प्रान्तकार्यकर्तृसम्मेलनम् । सम्मेलने प्रविष्टशिबिराः सम्भाषणशीलाः दायित्ववन्तश्च भागग्रहणं कर्तुं शक्नुवन्ति।
सम्मेलने संस्कृतभारत्याः कार्यपरिचयः भविष्यस्य कार्ययोजना संस्कृतविज्ञानप्रदर्शिनी संस्कृतवस्तुप्रदर्शिनी संस्कृतपुस्तकप्रदर्शिनी
चर्चासत्राणि संस्कृतविषये विचार-विमर्शाः संस्कृमयाः सांस्कृतिककार्यक्रमाश्च आयोज्यन्ते।
अतः भवन्तः सर्वे संस्कृतसम्भाषणशीलाः आगच्छन्तु संस्कृतसेवाकार्ये सहभागिनश्च भवन्तु। पंजीकरणशुल्कं शतम् रुप्यकाणि वर्तते।
28 तमे दिनांके शुक्रवासरे रात्रौ 20 00वादनपर्यन्तं सर्वेषां कार्यकर्तृणाम् उपस्थितिःअनिवार्या।
भोजन-आवासव्यवस्था तत्रैव भविता।
29 तमे दिनांके प्रातः 9 00वादने सम्मेलनस्य उद्घाटनं भविष्यति।ये संस्कृतसम्भाषणशीलाः संस्कृतप्रेमिणश्च ते सर्वे भागग्रहणं कर्तं शक्नुवन्ति।.