वार्तानां पूर्वावलोकनम्

क्षेत्रीयः आवासीयः संस्कृत-प्रशिक्षण-वर्गः २०१८


नमो नमः संस्कृतभारती विश्वव्यापी युवा संघटनम् अस्ति । संस्कृतस्य प्रचार-प्रसारं च अस्य मूलकार्यम् अस्ति । संस्कृतस्य प्रशिक्षणाय अस्मिन् वर्षे क्षेत्रीयः ग्रीष्मकालीनः आवासीयः संस्कृत-प्रशिक्षण-वर्गः २२ मईतः ३ जूनपर्यन्तं कानपुरमहानगरे उत्तरप्रदेशे भविष्यति । प्रशिक्षणवर्गस्य भागद्वयं भविष्यति - 1 - भाषायाः सम्वर्धनाय "भाषा-बोधन-वर्गः" 2- समाजे सर्वत्र संस्कृतं पाठयितुं समर्पित-नूतन-शिबिररचालक-निर्मातुं च "शिबिर-चालक-प्रशिक्षण-वर्गः" । वर्गे २२ मई अपराह्नपर्यन्तम् अवश्यमेव प्राप्तव्यं विलम्बेन प्रवेशः न भविष्यति । इच्छुकाः शिक्षार्थिनः शिक्षकाः कार्यकर्तारश्च शीघ्रमेव आवेदनं कुर्वन्तु सीमितस्थानम् अस्ति । वर्गावधिः २२ मई - ३ जून २०१८ पर्यन्तम् । वर्गस्थानम् --- सरस्वती विद्या मन्दिर इंटर कालेज गोविन्द नगर कानपुर उ0प्र0 । वर्गशुल्कम् - 600/₹ आयोजिका--संस्कृतभारती पूर्वी-उत्तरप्रदेशक्षेत्रम् अधिकविवरणाय सम्पर्कसूत्राणि आचार्य चन्द्रप्रकाश जी ( कानपुरप्रान्तमन्त्री )९४१५४८४३४५ श्री प्रकाश जी ( कानपुरप्रान्त-सङ्घटनमन्त्री )७३७६८१२५९५ अणुसङ्केतः(email id)-samskritamkanpur@gmail.com .


  • द्वारा स्थापितम् - कानपुरम्
  • |
  • 19-05-2018
  • |
नवीनतमवार्ताः
अधिकाधिक-प्रयत्नाः कृताः | 24 होरानन्तरं पुनः प्रयतताम् |