Top
वार्तानां पूर्वावलोकनम्

जवाहरलालनेहरूविश्वविद्यालये दशदिवसात्मकस्य सम्भाषणशिविरस्य आरम्भः
10/04/2018 दिनाङ्कादारभ्यः तदनुसारं मंगलवासरादारभ्यः जवाहरलालनेहरूविश्वविद्यालयस्य संगणकसंस्थाने (School of Computer and System Sciences) दशदिवसात्मकस्य सम्भाषणशिविरस्य आरम्भः जातः। अत्र पञ्चत्रिंशत् छात्रास्सन्ति। शिविरस्य आरम्भे संगणकसंस्थानस्यैव आचार्यस्य सतीशमहोदयस्य सान्निध्यं प्राप्तम्। अथ च रामकृष्णपुरविभागस्य जिल्लासंयोजकः अरूणमहोदयोsपि साहाय्यत्वेन उपस्थितोssसीत्। शिविरेsस्मिन् शिक्षिका खुशबूमहोदया (वि.वि. संयोजिका) सहशिक्षिका शिप्रामहोदया (वि.वि. शिक्षणप्रमुखा) च अस्ति। अत्र विश्वविद्यालयसहसंयोजकः जितेन्द्रमहोदयः वि.वि.शिविरप्रमुखा नन्दिनीमहोदया चापि आसीत्।

संस्कृतसंवर्धनप्रयोजनं स्वीकृत्य आरभ्यमाणं शिविरमिदं साफल्यं प्राप्नुयात् इति कामना।.


  • द्वारा स्थापितम् - देहली
  • |
  • 11-04-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,