वार्तानां पूर्वावलोकनम्

मैसूर नगरस्य संस्कृत सम्भाषणशिबिरवार्ता।


शिबिरवार्ता। मैसूर नगरस्य रूपानगरे दीपा प्रौढशालायां 10 दिनाङ्कतः 20 दिनाङ्कपर्यन्तं संस्कृत सम्भाषणशिबिरं प्राचलत्। समारोपकार्यक्रमेस्मिन् संस्कृतभारत्याः क्षेत्रसङ्घटनमन्त्री श्री दत्तात्रेय वज्रल्लि महोदय श्री सुरेश हेगडे महोदय दीपाशालायाः कार्यदर्शि श्री शर्मा महोदय मुख्योपाध्यायिनी श्रीमती सविता इत्यादयः आसन्। कार्यक्रमे सामूहिकगीतं एकपात्राभिनयः कथाकथनं श्लोकपठनमित्यादिकमासीत्। आहत्य उपत्रिंशत् छात्राः आसन्।.


  • द्वारा स्थापितम् - संस्कृतभारती
  • |
  • 24-07-2018
  • |
नवीनतमवार्ताः
अधिकाधिक-प्रयत्नाः कृताः | 24 होरानन्तरं पुनः प्रयतताम् |