जवाहरलालनेहरू-विश्वविद्यालयस्य संस्कृतसंस्थाने संस्कृतसम्भाषणशिबिरम्
जवाहरलालनेहरू-विश्वविद्यालयस्य संस्कृतसंस्थाने १ सितंबरत: - ७ सितम्बरपर्यन्तं आयोज्यमानं सप्तदिवसात्मकं शिबिरं प्रारब्धम्। यत्र उदघाटनावसरे संस्थानप्रमुख: प्रो. गिरीशनाथझा संस्थानस्य प्राचार्यौ प्रो. हरिराममिश्रासंतोषकुमारशुक्लौ संस्कृतभारतीपक्षत: रामकृष्णपुरं विभागस्य विभागप्रमुख: देवकीनन्दनमहोदय: एवं च दिल्लीप्रान्तस्य विद्यार्थीविस्तारक: गौतम: स्वोपस्थित्या कार्यक्रमं सुशोभितवन्त:। तत्र सर्वप्रथमं संतोषकुमारशुक्लवर्येण संस्कृतस्य प्रसाराय प्रचाराय च छात्रा: उद्बोधिता:। गिरीशनाथझामहोदय: अपि संस्कृतभाषाया: विशेषता: उद्बोधयन् संस्कृतस्य तकनीकीपक्षं प्रकटितवान्। हरिराममिश्रमहोदयेनापि वाग्वचोभि: संस्कृतस्य वैशिष्ट्यं प्रतिपादयन् कथं संस्कृतं वर्धेदिति संक्षेपेण प्रतिपादितम्। देवकीनन्दनमहोदय: अपि संस्कृतभाषाया: उन्नतिविषये स्वविचारान् परिपोषितवान्।
कार्यक्रमस्य संचालनं संस्थानस्य पार्षदेन अनिलकुमार आर्येण कृतम्। शिबिरस्य मुख्यशिक्षिका दीपिका एवं च सहशिक्षिका मंगला अपि स्वोपस्थित्या कार्यक्रमं सुशोभितवत्यौ।.