Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
संस्कृतभारती - हिमाचलप्रदेशः

हिमाचलप्रान्ते भवतां हार्दं स्वागतम्।
हिमाचलप्रदेशे संस्कृतभारत्याः कार्यारम्भः कलियुगस्य ५२ तमशताब्द्यां प्रथमवर्षे ५१०१ तमयुगाब्दे १९९९ तमे क्रिस्तवर्षे अभवत्। हिमाचलप्रदेशः ७ विभागेषु २४ जनपदेषु १२३ खण्डेषु च विभक्तो वर्तते। वर्तमानकाले २२ जनपदेषु ६८ खण्डेषु च संस्कृतभारत्याः समर्पितकार्यकर्तॄणां गणः कार्यरतः अस्ति। अस्माकं प्रान्ते २० वर्षेषु १९०० अधिकानि संस्कृतसम्भाषणशिबिराणि अभवन् येषु ७५००० जनाः भाषाशिक्षणं प्राप्तवन्तः पुनः ८७ प्रबोधनवर्गाः सञ्जाताः येषु ६५०० जनाः प्रशिक्षिताः एवमेव १९ प्रशिक्षणवर्गाः अभवन् येषु ७५० कार्यकर्तारः प्रशिक्षणं प्राप्तवन्तः तेषु ४१० कार्यकर्त्तारः अल्पावधिविस्तारकरूपेण प्रचारकार्यं कृतवन्तः। अधुना सहस्राधिकानां संस्कृतसम्भाषणसमर्थानां कार्यकर्तॄणां सहयोगेन वयं शिक्षण-प्रचार-सम्पर्कादिभिः विविधैः आयामैः सम्भाषणशिबिर-प्रबोधनवर्ग-प्रशिक्षणवर्ग-अभ्यासवर्ग-साप्ताहिकमेलन-नैपुण्यवर्ग-व्याकरणवर्ग-काव्यवर्ग-संस्कृतसप्ताह-गीताजयन्ती-संस्कृतबालकेन्द्र-पौरोहित्यसंस्कृतशिक्षणादीनां क्रियान्वयने सफलाः भवामः। हिमाचलप्रान्ते १८ संस्कृतकुटुम्बानां व्यवहारभाषा संस्कृतमेवास्ति। अत्र पत्राचारद्वारा ४५ जनाः संस्कृताध्ययने निरताः सन्ति। सम्प्रति हिमाचलप्रान्ते 02 पूर्णकालिकौ 07 पुरुषविस्तारकाः 01 महिलाविस्तारिका आहत्य 10 पूर्णकालिकाः विस्तारकाः च सन्ति । आगच्छन्तु मित्राणि! मिलित्वा संस्कृतभाषां जनभाषां कर्तुं प्रयतामहे।

Courses/Classes
S.L
Date from - to
Time
Venue
Contact
1 02-Jan-2020 to 11-Jan-2020 12:00 AM केन्द्रीयविश्वविद्यालयपरिसर राधाकृष्णमन्दिरस्य निकटं देहरा 9459070752
2 02-Jan-2020 to 11-Jan-2020 12:00 AM शिक्षाभारती बी.एड. महाविद्यालय समूरखूर्दम् ऊना 8219205582
3 02-Jan-2020 to 11-Jan-2020 12:00 AM राजकीयसंस्कृतमहाविद्यालय सोलनम् 9129401300
4 19-Sep-2020 to 28-Sep-2020 06:00 PM गूगलमीटमाध्यमेन https //meet.google.com/fzi-ioux-gxa 9459522200
5 19-Sep-2020 to 28-Sep-2020 06:00 PM गूगलमीटमाध्यमेन https //meet.google.com/deo-hbjs-sxy 9817073577
6 19-Sep-2020 to 28-Sep-2020 06:00 PM गूगलमीटमाध्यमेन https //meet.google.com/ayg-ropd-trj 9459070752
7 28-Jul-2020 to 06-Aug-2020 12:00 AM माध्यमः- गूगलमीटद्वारा 9459522200
8 27-Dec-2020 to 05-Jan-2021 05:30 PM माध्यमः- गूगलमीटद्वारा एकादशवर्गाः 9459522200
9 15-Jun-2021 to 20-Jun-2021 06:00 PM अयं वर्गः GOOGLE MEET माध्यमेन प्रवर्तते 9459522200
10 22-Jun-2021 to 01-Jul-2021 07:00 PM सद्यस्कमाध्यमेन त्रयाणां वर्गाणाम् आयोजनम् प्रवेशसूत्रम् meet.google.com/qye-bczd-jsy 9817073577
11 18-Apr-2022 to 07-May-2022 02:00 PM राजभवनम् शिमला हिमाचलप्रदेशः 9817073577
12 29-Apr-2022 to 13-May-2022 05:00 PM राजीवगान्धि-आयुर्वेदमहाविद्यालयः पपरोला जिला-काङ्गडा हि.प्र. 8219959435
13 09-Jun-2022 to 22-Jun-2022 01:00 PM तकनीकिविश्वविद्यालयः हमीरपुरम् 7018665090
14 01-Aug-2022 to 11-Aug-2022 02:00 PM सरदारपटेलविश्वविद्यालयस्य एवं च वल्लभ-राजकीयमहाविद्यालस्य संस्कृतविभागयोः संयुक्ततत्त्व 8219920951
15 15-Aug-2022 to 25-Aug-2022 02:00 PM नालागढस्य डी.पी.एस.वल्ड-विद्यालये सम्भाषणशिबिरं सम्पन्नम् 9418415315
16 18-Aug-2022 to 28-Aug-2022 02:00 PM नालागढस्य बी.वी.एन.विद्यालये संस्कृतसम्भाषणशिबिरं सम्पन्नम् 9418415315