सौराष्ट्रेप्रदेशे स्वागतम् !
द्वारकाधीशस्य कृष्णस्य प्रथमज्योतिर्लिङ्गस्य सोमनाथस्य रैवतकपर्वतस्य श्वेत-रणस्य च प्रदेशः सौराष्ट्रम्। अस्मिन् प्रदेशे संस्कृतप्रचाराय बद्धकटयः संस्कृतभारती-कार्यकर्तारः संस्कृत-पठने भवतां साहाय्यं कर्तुं तत्पराः सन्ति। अस्मिन् प्रदेशे १४ जनपदाः दिव-नामकः एकः केन्द्रशासितः प्रदशः च अस्ति। प्रायशः सर्वेषु जनपदेषु संस्कृतभारती सक्रिया वर्तते। प्रतिवर्षम् अत्र नैकानि संस्कृत-सम्भाषण-शिबिराणि साप्ताहिक-मेलनानि बाल-केन्द्राणि आवासीय-प्रबोधन-वर्गः प्रशिक्षण-वर्गः च भवति। प्रायः प्रत्येकं जनपदे जनपद-सम्मेलनानि सम्पन्नानि। प्रतिवर्षं प्रायः सर्वत्र सस्कृत-सप्ताहोत्सवाः अपि भवन्ति। कार्यं प्रतिजनपदं प्रापयितुं नैकत्र संस्कृत-परिचय-वर्गाः अपि जाताः। अग्रिमेषु वर्षेषु कार्यम् इतोऽपि वेगवत् कर्तुं वयं निरन्तरं नैकधा प्रयत्नरताः स्मः।
Courses/Classes
S.L | Date from - to |
Time |
Venue |
Contact |
---|