Top
Samskrita Bharati - North Karnataka
संस्कृतभारती - उत्तरकर्णाटक
भवतां समेषां हार्दं स्वागतं स्वाहरति संस्कृतभारती उत्तरकर्णाटकम्

संस्कृतभारती एका स्वायत्तसंस्था वर्तते । अस्याः संस्थायाः स्थापना 1981 तमे वर्षे बेङ्गलूरुमहानगरे जाता । देशे विदेशे च अस्याः संस्थायाः कार्यकर्तारः अहर्निशं सेवां कुर्वन्तः सन्तीति महतः प्रमोदस्य विषयः । अस्याः संस्थायाः मुख्यम् उद्देश्यम् अस्ति यत् सर्वासां भारतीयभाषाणां मातृस्थाने स्थितायाः संस्कृतभाषायाः पुनरुत्थापनम् । येन वसुधैवकुटुम्बकम् सर्वे भवन्तु सुखिनः यत्र नार्यस्तु पुज्यन्ते रमन्ते तत्र देवताः इत्यादीनि ऋषिवाक्यानि मौल्यानि च मानवजीवने पुनरानेतुं शक्नुयात् ।
एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ मनु० ॥
संस्कृतभाषायां विद्यमानं यद् विशिष्टं ज्ञानं प्राप्तुं वैदेशिकाः भारतभूमिम् आगच्छन्ति स्म । येन ज्ञानेन भारतं विश्वगुरुस्थानं प्राप्नोत् तस्य ज्ञानस्य पुनरुत्थापनाय संस्कृतभारती संस्था कार्यं करोति । अत्यन्तं सरलपाद्धत्या विना शुल्कं १० दिनाभ्यन्तरे सर्वधर्मिणः जनान् संस्कृतभाषां पाठयति इयं संस्था । अस्याः संस्थायाः कार्यालयाः भारते प्रायः सर्वराज्येषु सर्वप्रान्तेषु च वर्तन्ते । प्रायः सर्वेषु तालूकुस्थानेषु जिल्लास्थानेषु च कार्यकर्तारः भारत्याः सेवां कुर्वन्तः सन्ति ।
एवमेव कर्णाटकस्य उत्तरप्रान्ते धारवाडनगरे अस्याः संस्थायाः केन्द्रं वर्तते । उत्तरकर्णाटके संसृतभारत्याः कार्यस्य विकासदृष्या आहत्य ६ विभागाः १७ जिल्लाः च चिन्तिताः । तद्यथा - १. शिरसि विभागः (शिरसि कारवार दाण्डेली) २.धारवाडविभागः (धारवाड गदग हावेरि) ३. बेलगाविविभागः ( बेलगावि चिक्कोडि) ४. विजयपुरविभागः (विजयपुरम् बागलकोटे जमखण्डि) ५.कलबुर्गिविभागः (कलबुर्गि बीदर यादगिरिः) ६.बल्लारिविभागः (बल्लारि. कोप्पल रायचूरु)
संस्कृतभारत्याः कार्यक्रमाः - १) सम्भाषणशिबिरम् १० दिनात्मकम् २) भाषाबोधनवर्गाः ३) बालकेन्द्रम् ४) पत्रालयद्वारा संस्कृतम् ४) प्रशिक्षणवर्गः ५) गीताशिक्षणम् ६) स्त्रोत्रपाठनम् ७) सङ्घटनात्मकरार्याणि प्रचारात्मककार्याणि च प्रचलन्ति । अधिकविवरणाय सम्पर्कं कुर्वन्तु - 9449817624 e-mail id – samskrituk@gmail.com

Courses/Classes
S.L
Date from - to
Time
Venue
Contact
1 03-Sep-2018 to 13-Sep-2018 12:00 AM Venkateshwar Temple Mundaragi 9449817624