
संस्कृतसम्भाषणशिबिरम्, केन्द्रीयविश्वविद्या..
संस्कृतभारतीहिमाचलप्रदेशद्वारा केन्द्रीयविश्वविद्यालये धर्मशाालायां संस्कृतविभागे सितम्बरमासस्य 26 दिनाङ्कतः संस्कृतसम्भाषणशिबिरस्य आरम्भः मध्याह्ने 2:30 वादनतः 3:30 वादनपर्यन्तम् अभवत्। शिबिरस्य उद्घाटनावसरे संस्कृतविभागस्य विभागाध्यक्षः डा.योगेन्द्रधामा तथा च अन्ये प्राध्यापकाः आसन्। अवसरेsस्मिन् प्रशिक्षकः श्री अनिलः (विस्तारकः, संस्कृतभारती), शिबिरसंयोजकः -संस्कृतविभागः, केन्द्रीयविश्वविद्यालयस्य छात्राश्च उपस्थिताः आसन..
- Post By : Himachal Pradesh
- 28-09-2024

संस्कृतसम्भाषणशिबिरम्..
संस्कृतभारतीहिमाचलप्रदेशस्य नालागढ़जनपदस्यस्य संस्कृतमहाविद्यालये स्वारघाटे सितम्बरमासस्य 26 दिनाङ्कतः अक्टूबरमासस्य 5 दिनाङ्कपर्यन्तं संस्कृतसम्भाषणशिबिरस्य संचालनं भविष्यति। शिबिरस्य समयः मध्याह्ने 1:30 वादनतः 2:30 वादनपर्यन्तं भविष्यति। स्थानम् - श्रीसुनयनासंस्कृतमहाविद्यालयः, स्वारघाटः इति । एतस्य शिबिरस्य उद्घाटनावसरे कार्यक्रमस्य अध्यक्षः प्राचार्यः डॉ. राकेशशर्मवर्यः आसीत् । अवसरेsस्मिन् प्रशिक्षकः श्री जनकराजः (विस्ता..
- Post By : Himachal Pradesh
- 28-09-2024

अक्टूबर् 18-19 दिनाङ्कयोः शनिरविवासरयोः राज्यस्..
अयि शास्त्रसुचिन्तकाः सरस्वत्युपासकाः संस्कृतबान्धवाः! सादरं सहर्षं चेदं संसूचयन्तो महतीं मुदमनुभवामो वयं यत् ऐषमः हिमाचलप्रदेशे राज्यस्तरीया शास्त्रीया स्पर्धा संस्कृतभारतीद्वारा समायोजयिष्यत इति। अत्र हेतुः हिमाचले शास्त्राणां संरक्षणं छात्रेषु पाण्डित्यसम्पादनाय क्षमतोत्पादनञ्चास्ति। हिमाचले संस्कृभारत्याः द्वितीयः प्रयासः सफलतां यायात् इत्येतदर्थम् अखिलात् अपि राज्यात् अहमहमिकया छात्राः आसु स्पर्धासु भागं गृह्णीरन..
- Post By : Himachal Pradesh
- 21-09-2024

संस्कृतसम्भाषणशिबिरम् 10.09.2024 तः 21.09.2024 पर्यन्तम्..
संस्कृतभारतीदेहराजनपदद्वारा 10.09.2024 तः 21.09.2024 पर्यन्तम् आदर्शविद्यालये प्रागपुरे दशदिवसीयसंस्कृतसम्भाषणशिबिरस्य आयोजनं कृतम् । एतस्य शिबिरस्य संयोजकः देहराजनपदस्य शिक्षणप्रमुखः डॉ.विनोदशर्ममहोदयः आसीत् । शिबिरशिक्षकः संस्कृतभारत्याः विस्तारकः श्रीदीपराममहोदयः आसीत् । दशदिनानि यावत् प्रवृत्तस्य एतस्य शिबिरस्य समापनावसरे विद्यालयस्य प्रधानाचार्यः श्रीमान् गगनसूदवर्यः मुख्यातिथिरूपेण , देहराजनपदस्य मन्त्री श्रीपङ्कजमहोदयः मुख..
- Post By : Himachal Pradesh
- 21-09-2024

प्रान्तगोष्ठी 2024 फरवरी..
संस्कृतभारतीहिमाचलप्रदेशद्वारा फरवरीमासस्य 24-25 दिनाङ्कयोः शिमलाविभागस्य अर्कीजनपदे श्रीलुटरुमहादेवमन्दिरे प्रान्तसमीक्षायोजनागोष्ठी समायोजिता । अस्यां गोष्ठ्यां 55 कार्यकर्तारः उपस्थिताः आसन् । संस्कृतभारतीहिमाचलप्रान्तस्य 07 विभागेभ्यः 24 जनपदेभ्यः च समुपस्थिताः कार्यकर्तारः 2023-24 कार्यवर्षस्य निर्धारितानां कार्याणां समीक्षणं कृतवन्तः । अपि च 2024-25 कार्यवर्षस्य कार्ययोजनां च निश्चितवन्तः । गोष्ठ्याम् अस्याम् अखिलभारतसहसंघटनमन..
- Post By : Himachal Pradesh
- 28-02-2024

प्रान्तगोष्ठी 2023 दिसम्बर..
संस्कृतभारतीहिमाचलप्रदेशद्वारा 09-10 दिसम्बर् 2023 शनिरविवासरयोः सनातनधर्मसभा-पुरानाबाज़ार-सुन्दरनगरे द्विदिवसीया प्रान्तगोष्ठी आयोजिता । यस्याम् अखिलभारतीयसहसंघटनमन्त्री श्रीमान् जयप्रकाशमहोदयः, क्षेत्रीयसंघटनमन्त्री श्रीमान् नरेन्द्रकुमारमहोदयः, क्षेत्रीयमन्त्री श्रीमान् यशवीरमहोदयः, क्षेत्रसम्पर्कप्रमुखः श्रीमान् जोगिन्द्रमहोदयः च उपस्थितः आसीत् । हिमाचलप्रान्तस्य कार्यकारिणी, विविधजनपदेभ्यः खण्डस्तरीयाः विविधाः 65 दाय..
- Post By : Himachal Pradesh
- 28-02-2024

गीताजयन्ती 2024..
संस्कृतभारतीहिमाचलप्रदेशद्वारा 22 दिसम्बर् 2023 तमे वर्षे गीताजयन्तीम् उद्दिश्य विशिष्टा योजना कृता आसीत् । यत्र पूर्वसन्ध्यायां व्याख्यानम्, गीताजयन्ती दिने गृहे-गृहे गीतापारायणम्, खण्डस्तरे सामाजिकैः सह गीतापारायणम्, परम्परागतसंस्थासु अन्याभिः सामाजिकसंस्थाभिः च सह मिलित्वा गीतापारायणम् इत्येवं चतुर्धा कार्यक्रमाः विचारिताः आसन् । पूर्वसन्ध्यायां व्याख्यानकर्ता श्रीमान् प्रतापसिंहमहोदयः आसीत्। गीताजयन्तीदिने षट्चत्वारिंशत..
- Post By : Himachal Pradesh
- 28-02-2024

प्रबोधनवर्गाः 2024..
संस्कृतभारतीहिमाचलप्रदेशद्वारा 2024 तमवर्षस्य जनवरीमासस्य प्रथमदिनाङ्कतः दशदिनाङ्कं यावत् बाबा-बालजी-आश्रमः, ऊना अपि च सम्भोटा-तिब्ब्तनविद्यालयः, पौण्टासाहिब-सिरमौरः इत्यनयोः स्थानद्वयोः आवासीयप्रबोधनवर्गयोः आयोजनं कृतम् । सम्भोटातिब्बतनविद्यालये आहत्य 118 वर्गार्थिनः, 26 प्रबन्धकाः, 24 शिक्षकाः, 04 अधिकारिणः, आहत्यवर्गस्य संख्या 172 इति अपरस्मिन् ऊनावर्गे 106 वर्गार्थिनः, 17 प्रबन्धकाः, 15 शिक्षकाः, 02 अधिकारिणः, 27 प्रशिक्षणार्थिनः, आहत्यवर्गस..
- Post By : Himachal Pradesh
- 28-02-2024

राज्यस्तरीया शास्त्रस्पर्धा..
अयि शास्त्रसुचिन्तकाः सरस्वत्युपासकाः संस्कृतबान्धवाः! सादरं सहर्षं चेदं संसूचयन्तो महतीं मुदमनुभवामो वयं यत् ऐषमः हिमाचलप्रदेशे राज्यस्तरीया शास्त्रीया स्पर्धा संस्कृतभारतीद्वारा समायोजयिष्यत इति। अत्र हेतुः हिमाचले शास्त्राणां संरक्षणं छात्रेषु पाण्डित्यसम्पादनाय क्षमतोत्पादनञ्चास्ति। हिमाचले संस्कृभारत्याः आद्य एष प्रयासः सफलतां यायात् इत्येतदर्थम् अखिलात् अपि राज्यात् अहमहमिकया छात्राः आसु स्पर्धासु भागं गृह्णीरन्..
- Post By : Himachal Pradesh
- 16-07-2023

शिबिरचालकप्रशिक्षणवर्गः 2023..
संस्कृतभारतीहिमाचलप्रदेशद्वारा जूनमासस्य तृतीयदिनाङ्कात् पञ्चदशदिनाङ्कं यावत् केन्द्रीयसंस्कृतविश्वविद्यालयस्य वेदव्यासपरिसरे बलाहरे प्रान्तस्तरीयः शिबिरचालकप्रशिक्षणवर्गः आयोजितः । एतस्मिन् वर्गे सम्पूर्णप्रान्ततः एकोत्तरशतं प्रशिक्षणार्थिनः आसन् । द्वाविंशति प्रबन्धकाः नव शिक्षकाः च आहत्य वर्गे एकत्रिंशदधिकशतं संख्या आसीत् । वर्गारम्भे उद्घाटनसत्रे मुख्यातिथिः प्रसिद्धः उद्योगपतिः श्रीप्रवीणकपूरः मुख्यवक्ता डा.म..
- Post By : Himachal Pradesh
- 16-07-2023

प्रबोधनवर्गाः..
संस्कृतभाषायाः उत्तमाय अभ्यासाय संस्कृतं व्यवहारभाषां च कर्तुं संस्कृतभारतीद्वारा शीतावकाशेषु दशदिवसीयाः त्रयः प्रबोधनवर्गाः आयोजिताः सन्ति । 02 जनवरी 2023 तः आरब्धेषु त्रिषु अपि आवासीयवर्गेषु काङ्गडाविभागे लुधियाना-धर्मशाला-चामुण्यां बिलासपुरविभागे ज्योत्सना-आई.टी.आई.हमीरपुरे एवं च शिमलाविभागे सरस्वतीविद्यामन्दिर-विकासनगर-शिमलायां च 400 वर्गार्थिनः 75 प्रबन्धकाः शिक्षकाः च भागं गृह्णन्तः सन्ति। त्रयाणाम् अपि आवासीयप्रबोधनवर्गाण..
- Post By : Himachal Pradesh
- 09-01-2023

नालागढस्य बी.वी.एन.विद्यालये संस्कृतसम्भाषणशि..
संस्कृतभारतीनालागढद्वारा बाल-विद्या-निकेतन-विद्यालये सञ्चाल्यमानस्य संस्कृत-सम्भाषण-शिबिरस्य समापनकार्यक्रमः संस्कृतभारत्याः सोलनविभागसंयोजकस्य डा.सन्तोषकुमारवर्यस्य अध्यक्षतायां जिलामन्त्रिणश्च डा.प्रेमचन्दशर्ममहोदयस्य निर्देशने सुसम्पन्नः ।कार्यक्रमस्य अध्यक्षा विद्यालयस्य प्रधानाचार्या श्रीमती शिवानीशर्मा महोदया मुख्यातिथिः श्रीमती अर्चनाकोण्डिन्यमहोदया विशिष्टातिथिश्च श्रीमान् नन्दलालशास्त्रिमहोदयः आसीत् ।..
- Post By : Himachal Pradesh
- 28-08-2022

नालागढस्य डी.पी.एस.वल्ड-विद्यालये सम्भाषणशिबि..
संस्कृतभारती-नालागढस्य तत्वावधाने न्यू-नालागढस्थे डी.पी.एस.वल्ड-विद्यालये मङ्गलवासरे संस्कृतसम्भाषणशिबिरस्य समापनकार्यक्रमः आयोजितः । अष्टदिनात्मके$स्मिन् सम्भाषणशिबिरे षण्णानां विद्यालयानां 42 छात्राः 04 सामाजिकाश्च आहत्य 46 शिबिरार्थिनः संस्कृतसम्भाषणस्य शिक्षणं प्राप्तवन्तः । कार्यक्रमे मुख्यातिथिरूपेण सेवानिवृत्तः भूसंरक्षणाधिकारी लेखकश्च श्रीमान् यादवकिशोरगौतममहोदयः अध्यक्षः विद्यालयस्य मुख्यसंस्थापकः सञ्चालकश्च श्..
- Post By : Himachal Pradesh
- 25-08-2022
हिमाचलप्रदेशस्य मण्डीनगरे सरदारपटेलविश्वविद..
01/08/2022 दिनाङ्कात् हिमाचलप्रदेशस्य मण्डीनगरे सरदारपटेलविश्वविद्यालयस्य एवं च वल्लभ-राजकीयमहाविद्यालस्य संस्कृतविभागयोः संयुक्ततत्त्वावधाने दशदिवसीयसंस्कृतसम्भाषणशिबिरस्य शुभारम्भः अभूत् । शुभारम्भावसरे मुख्यातिथिरूपेण विश्वविद्यालयस्य कुलपतिः प्रो.देवदत्तशर्ममहोदयः विशिष्टातिथिरूपेण च महाविद्यालयस्य प्राचार्यः डा.वाई.पी.शर्ममहोदयः उपस्थितौ आस्ताम् । अवसरे अस्मिन् डा.राजेशशर्मा सहाचार्या सीमाबावा आचार्या निशावैद्या सहा..
- Post By : Himachal Pradesh
- 25-08-2022

शिमलायां राजकीयफागलीसंस्कृतमहाविद्यालये संस..
हिमाचलप्रदेशस्य शिमलाजनपदे राजकीयसंस्कृतमहाविद्यालये फागल्यां संस्कृतसप्ताहस्य शुभारम्भकार्यक्रमः अभवत् । कार्यक्रमे अस्मिन् महाविद्यालयस्य पूर्वप्राचार्यः डा.बंसीलालमहोदयः मुख्यातिथिरूपेण आसीत् । महाविद्यालयस्य प्राध्यापकः डा.ओङ्कारचन्दः सारस्वतातिथिरूपेण च उपस्थितः आसीत् । कार्यक्रमः अयं महाविद्यालयस्य प्राचार्यस्य डा.मुकेशशर्ममहोदयस्य आध्यक्षे सुसम्पन्नः । महाविद्यालयस्य छात्रैः विविधकार्यक्रमः संस्कृतसप्ताहकार..
- Post By : Himachal Pradesh
- 25-08-2022

सम्भाषणशिबिरम्..
संस्कृतभारतीहिमाचलप्रदेशद्वारा काङ्गडाजनपदे पपरोलायां राजीवगान्धि-आयुर्वेदमहाविद्यालये सम्भाषणशिबिरस्य आरम्भः कृतः । सम्भाषणशिबिरम् एतत् 29 अप्रेल् 2022 तः 13 मई 2022 पर्यन्तं प्रवृत्तम् । अस्य सम्भाषणशिबिरस्य संयोजकः महाविद्यालयस्य प्राचार्यः श्रीमान् विजयचौधरिमहोदयः आसीत् । एतस्मिन् शिबिरे संस्कृतभारत्याः काङ्गडाविभागस्य कार्यकर्ता श्रीमान् हीरासिंहः शिक्षकत्वेन आसीत् । सम्भाषणशिबिरे अस्मिन् 18 बालकाः 56 बालिकाः भागम् अगृह्णन् ।..
- Post By : Himachal Pradesh
- 09-06-2022

सम्भाषणशिबिरस्य आरम्भः..
हिमाचलप्रदेश-तकनीकि-विश्वविद्यालये हमीरपुरे 09 जून् 2022 दिनाङ्कतः सम्भाषणशिबिरस्य आरम्भः क्रियते । सम्भाषणशिबिरे अस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य वेदव्यासपरिसरस्य ज्योतिषविभागीयः प्राध्यापकः डा.प्रदीपशर्मा शिक्षकत्वेन भविष्यति । सम्भाषणशिबिरम् इदं संस्कृतभारतीहिमाचलप्रदेशस्य शिक्षणसहयोगेन सम्पत्स्यते । शिबिरे अस्मिन् तकनीकिविश्वविद्यालयस्य छात्राः विविधविभागप्राध्याकाः च भागं ग्रहीष्यन्ति । एतस्मिन् शिबिरे सरल..
- Post By : Himachal Pradesh
- 09-06-2022

राजभवने सम्भाषणशिबिरस्य समारोपः..
राजभवने 19 मई 2022 दिनाङ्के महामहिम्नः राज्यपालमहोदयस्य अध्यक्षतायां 18 एप्रिल् 2022 तमे दिने आरब्धस्य सम्भाषणशिबिरस्य समारोपः अभूत् । अवसरे अस्मिन् मुख्यवक्तृरूपेण अखिलभारतीयसंघटनमन्त्री श्रीमान् दिनेशकामतमहोदयः उपस्थितः आसीत् । विशिष्टातिथिरूपेण उत्तरक्षेत्रसंघटनमन्त्री श्रीमान् नरेन्द्रकुमारः अपि च दीनदयालचिकित्सालयस्य अधीक्षकः श्रीमान् लोकेन्द्रशर्मा उपस्थितौ आस्ताम् । शिबिरे अस्मिन् शिबिरार्थिनां संख्या प्रायेण 30 इति आसी..
- Post By : Himachal Pradesh
- 25-05-2022

प्रशिक्षणवर्गः 2022..
संस्कृतभारतीहिमाचलप्रदेशद्वारा 10 जून् 2022 तः 21 जून् 2022 पर्यन्तं ठाकुररामसिंहस्मृतिन्यासः (ग्रामः - टिप्परः तह. गलोडः जिला - हमीरपुरम्) इत्यत्र दशदिनात्मकः प्रान्तस्तरीयः प्रशिक्षणवर्गः आयोज्यते । वर्गे अस्मिन् पूर्वं कृतप्रबोधनवर्गाः आवासीयभाषाबोधनवर्गाः साप्ताहिकमेलने नियतरूपेण भागग्रहीतारः संघटनयोजनानुसारं विविधकार्येषु कार्यक्रमेषु च भागग्रहीतारः अपि च भाविनि काले सम्भाषणशिबिराणि चालयितुं समयदानस्य कृतनिश्चयाः जनाः भागं ..
- Post By : Himachal Pradesh
- 25-05-2022

प्रान्तसमीक्षायोजनागोष्ठी..
संस्कृतभारतीहिमाचलप्रदेशद्वारा मेमासस्य प्रथमद्वितीयदिनाङ्कयोः केन्द्रीयसंस्कृतविश्वविद्यालयस्य वेदव्यासपरिसरे काङ्गडायां प्रान्तसमीक्षायोजनागोष्ठी आयोजिता । उद्घाटनावसरे मुख्यातिथिरूपेण वेदव्यासपरिसरस्य वेदान्तविभागाध्यक्षः डा.मञ्जुनाथभट्टमहोदयः अध्यक्षत्वेन उत्तरक्षेत्रस्य क्षेत्रमन्त्री श्रीमान् आचार्यलक्ष्मीनिवासपाण्डेयः च उपस्थितौ आस्ताम् । अस्यां गोष्ठ्यां प्रान्तस्य प्रायेण उपसप्ततिकार्यकर्तारः (४८ पुर..
- Post By : Himachal Pradesh
- 08-05-2022
प्रान्तसमीक्षायोजनागोष्ठी 2022..
संस्कृतभारतीहिमाचलप्रदेशद्वारा स्थानीय-खण्ड-जनपद-विभाग-प्रान्तस्तरेषु संस्कृतकार्यस्य दृढीकरणाय काङ्गडाविभागस्य देहराजनपदे 2022 मई-मासस्य 1-2 दिनाङ्कयोः प्रान्तसमीक्षायोजनागोष्ठी आयोज्यमाना वर्तते । इयं गोष्ठी केन्द्रीयसंस्कृतविश्वविद्यालयस्य वेदव्यासपरिसर-बलाहरे निश्चिता वर्तते । यस्याम् अपेक्षिताः सर्वे अपि कार्यकर्तारः 1/05/2022 प्रातः 10 00 वादनतः 2/05/2022 मध्याह्ने 02 00 वादनं यावत् प्रान्तस्तरे गतवर्षे प्रवर्तमानां कार्याणां विषये सूक..
- Post By : Himachal Pradesh
- 24-04-2022

शिमलायां राजभवने सम्भाषणशिबिरस्य आरम्भः..
राज्यपालस्य श्रीमता राजेन्द्रविश्वनाथार्लेकरमहोदयस्य आग्रहेण राजभवने सर्वेषां कर्मचारिणां कृते संस्कृतसम्भाषणशिबिरम् आयोजितम् । उद्घाटनसत्रस्य शुभारम्भवेलायां राज्यपालवर्येण कथितं यत् " संस्कृतं हिमाचलप्रदेशस्य द्वितीयराजभाषा वर्तते एतदर्थम् एतस्मिन् राज्ये अस्याः भाषायाः पुनर्स्थापनस्य आवश्यकता वर्तते " इति । इत्युद्देश्येन एव सम्भाषणशिबिरम् एतत् राजभवने आयोजितं वर्तते । 20 दिनानि यावत् प्रवर्तमाने एतस्मिन् शिबिरे 29 पु..
- Post By : Himachal Pradesh
- 24-04-2022

" पत्राचारद्वारा संस्कृतम् " आयामस्य द्विद..
अयं वर्गः ज्येष्ठप्रविष्टे १३-१४ कलियुगाब्द ५१२३ विक्रमीसंवत् २०७८ तदनुसारं २६-२७ मे २०२१ आसीत् अस्य अभ्यासवर्गस्य उद्देश्यानि- पत्राचारद्वारा संस्कृतमितिगणस्य परस्परं परिचय । आयामस्य सम्पूर्णपरिचय । जिलापत्राचारप्रमुखेन मम दायित्त्वं किम् ? परस्परचर्चा कार्ययोजना च । मध्याह्ने त्रिवादनात् पञ्चवादनपर्यन्तम् प्रान्तपत्राचारगणसदस्या जिलापत्राचारप्रमुखा ( जिलासंयोजक / जिलाशिक्षणप्रमुख ) अस्मिन् अभ्यासवर्गे अपेक्ष..
- Post By : Himachal Pradesh
- 17-06-2021

“विद्यालयीयकार्यम्” अस्य आयामस्य द्विदिवसीय-..
संस्कृतभारती-हिमाचलप्रदेशस्य “विद्यालयीयकार्यम्”आयामस्य सद्यस्कमाध्यमेन आयोजितस्य द्विदिवसीय-अभ्यासवर्गस्य विवरणम् अयं वर्गः २९-०५-२०२१ तः ३०-०५-२०२१ पर्यन्तम् आसीत् अभ्यासवर्गस्य अवधिः – अपराह्णे २ ०० तः ४ ०० वादनपर्यन्तम् अत्र हिमाचलप्रान्तस्य प्रायेण उपपञ्चत्रिंशत् प्रतिभागिनः भागम् अगृह्णन् । अभ्यासवर्गे प्रतिदिनं सत्रद्वयम् आहत्य दिनद्वये चत्वारि सत्राणि निर्धारितानि आसन्। २९-०५-२०२१ प्रथमदिवसे प्रथमसत्रम् ‘आयामपरि..
- Post By : Himachal Pradesh
- 15-06-2021

भाषाबोधनवर्गस्य समापनम्..
संस्कृतभारती-हिमाचलप्रदेशेन 29.01.2021 आरभ्य 02.02.2021पर्यन्तं गूगलमीट-वैबेक्सतन्त्रांशद्वयमाध्यमेन पञ्चदिनात्मक सद्यस्क-भाषाबोधनवर्ग आयोजित । अस्मिन् वर्गे हिमाचलप्रदेशस्य बहुभ्यः जनपदेभ्यः शताधिकाः महाविद्यालयच्छात्राः भागं गृहीतवन्तः। अस्मिन् भाषाबोधनवर्गे संघटनस्य ज्येष्ठाः कार्यकर्तारः मार्गदर्शनं कृतवन्तः। प्रतिदिनं चत्वारि सत्राणि भवन्ति स्म यथा- प्रातः सत्रद्वयं सायं सत्रद्वयं च। वर्गे शिक्षणप्रमुखस्य दायित्वं शिमलाविभा..
- Post By : Himachal Pradesh
- 17-02-2021

संस्कृतभारतीहिमाचलप्रदेशस्य एकमासात्मकः शास..
देवभूमौ हिमाचले देवभाषासंस्कृस्य प्रसारार्थं शास्त्रपरम्परासंरक्षणार्थं च संस्कृतभारती सततं विविधान् कार्यक्रमान् आयोजयति। अस्यामेव कार्यक्रमशृङ्खलायां हिमाचलप्रदेशसंस्कृतभारतीन्यासद्वारा सितम्बरमासस्य 25 दिनाङ्कात् 26 अक्तूबरपर्यन्तं आयोजतः एकमासात्मकः शास्त्रपरिचयवर्गः सुसम्पन्नतां गतः। अस्मिन् शास्त्रपरिचयवर्गे सद्यस्कमाध्यमेन एकमासं यावत् प्रत्यहं होरात्रयं व्याकरण-वेद-साहित्य-दर्शन-ज्योतिष-धर्मशास्त्रादिविषयाण..
- Post By : Himachal Pradesh
- 05-11-2020

शास्त्रपरिचयवर्गः..
सर्वेभ्य नम संस्कृतभारती-हिमाचलप्रदेशद्वारा शास्त्राध्येतृणां कृते विविधपरीक्षाणां सिद्धतायै (विशेषतः शास्त्री-कमीशन इत्यस्याः परीक्षायाः सिद्धतायै) शास्त्रपरिचयवर्गस्य आयोजनं (24.9.2020 तः 26.10.2020 पर्यन्तम्) क्रियते। तत्र भागं ग्रहीतुम् अधोलिखिता नियमा निर्धारिता सन्ति - 1. अयं वर्गः केवलं हिमाचलप्रदेशस्य संस्कृताध्येतृभ्यः एव निश्चितः अस्ति। 2. वर्गे प्रवेशाय अनिवार्यतया अधः प्रदत्तसंयोजिकाद्वारा आवेदनं करणीयम्। 2. वर्ग Google Meet App माध्..
- Post By : Himachal Pradesh
- 09-10-2020

संस्कृतसप्ताहावसरे संस्कृतशुभकामनासन्देशप्..
संस्कृतशुभकामनासन्देशप्रेषणम् – संस्कृतभारत्याः कार्यकर्तृणां प्रेरणया संस्कृतसप्ताहावसरे बहुभिः सामाजिकजनैः नेतृभिः हिमाचलसर्वकारमन्त्रिभिः प्रशासनिकाधिकारिभिः कृषकैः संस्कृतेतरप्राध्यापकैश्च सर्वेभ्यः संस्कृतेनशुभकामनासन्देशाः प्रेषिताः। तान् सर्वान् सन्देशान् एकत्रीकृत्य संस्कृतसप्ताहावसरे प्रतिदिनं मध्ये मध्ये संस्कृतभारत्याः आमुखपटलस्य पृष्ठेतेषां प्रसारणं कृतम्। ये सन्देशाः सर्वेभ्यः प्राप्ताः तेषां संख..
- Post By : Himachal Pradesh
- 07-10-2020

संस्कृतसप्ताहे विशिष्टव्याख्यानानि अभवन्..
विशिष्टव्याख्यानानि संस्कृतसप्ताहे संस्कृतभारतीहिमाचलपक्षतः समाजस्य लब्धप्रतिष्ठविदुषः ज्येष्ठस्य व्याख्यानं अपि कृतम्। तद्विवरणम् – 1. प्रथमं विशिष्टव्याख्यानम् (31.7.2020) विषयः – “संस्कृतं सर्वत्र संस्कृतं सर्वेषाम्” व्याख्याता – प्रो. कुलदीपचन्दः अग्निहोत्रिवर्यः (कुलपतिः हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः धर्मशाला 2. द्वितीयं विशिष्टव्याख्यानम् (1.8.2020) विषयः – “राष्ट्रनिर्माणे संस्कृतस्य भूमिका” व्याख्याता – ..
- Post By : Himachal Pradesh
- 07-10-2020

संस्कृतसप्ताहस्य संस्कृतसम्भाषणवर्गाणां च स..
संस्कृतसप्ताहस्य संस्कृतसम्भाषणवर्गाणां च समापनकार्यक्रमः – दिनाङ्कः - 06.08.2020 समयः - अपराह्णे 4.30 आरभ्य 6 वादनपर्यन्तम् माध्यमः - फेसबुकलाइव-स्ट्रीमयार्ड कार्यक्रमे वर्गार्थिनां प्रस्तुतयः - 20 मुख्यातिथिः -श्रीसुरेशभारद्वाजः (शहरीविकास-सहकारिता-विधिमन्त्री) मुख्यवक्ता -जयप्रकाशगौतमः (उत्तरक्षेत्रसङ्घटनमन्त्री संस्कृतभारती) अतिथिपरिचय-स्वागतकर्ता - श्री पन्नालालमहोदयः (प्रान्तप्रचारप्रमुखः) प्रास्ताविकम् -प्र..
- Post By : Himachal Pradesh
- 07-10-2020

संस्कृतसप्ताहे सन्ध्यकालीनाः कार्यक्रमाः..
सन्ध्यकालीनाः कार्यक्रमाः संस्कृतसप्ताहे प्रतिदिनं सायं 7.30 वादनात् 8.30 वादनं यावत् विविधाः संस्कृतकार्यक्रमाः आयोजिताः आसन्। एतेषां कार्यक्रमाणां निमित्तं समग्रप्रदेशात् नैके संस्कृतानुरागिणः कार्यकर्तारश्च तत्तद्दिनस्य कार्यक्रमस्वरूपानुसारं कार्यक्रमान् प्रेषितवन्तः। तद्यथा – 1. संस्कृतगीतसन्ध्या (31.07.2020) संयोजकः – श्री हीरासिंहः (जिलासंयोजकः कांगडा) सहसंयोजिका - सुश्री शबनमठाकुर (छात्रप्रमुखा मण्डी) 2. संस्कृतस्तोत्रस..
- Post By : Himachal Pradesh
- 09-10-2020

संस्कृतसम्भाषणाभ्यासाय संस्कृतसप्ताहावसरे ..
बृहद्हिमालयपर्वतशृङ्खलायाः पश्चिमे अवस्थिते देवपरम्परा परिपूर्णे देवभूमौ हिमाचलप्रदेशे संस्कृतस्य सुप्रचारार्थं प्रसारार्थं च संस्कृतभारतीसंघटनं सततं कार्यं करोति एव। अस्मिन् 2020 तमे क्रैस्ताब्दे संस्कृतभारत्याः वार्षिककार्यक्रमेषु अन्यतमस्य संस्कृतसप्ताहस्य आचरणं जुलाईमासस्य 31 दिनाङ्कात् अगस्तमासस्य 6 दिनाङ्कपर्यन्तं जातम्। तत्र समग्रहिमाचलप्रदेस्य जनानां संस्कृतसम्भाषणाभ्यासाय संस्कृतसप्ताहावसरे 5 सम्भाषणवर्गाणाम् आ..
- Post By : Himachal Pradesh
- 07-10-2020

शिमला-रामपुरविभागयो संस्कृतसम्भाषणवर्गस्य स..
संस्कृतभारती-हिमाचलप्रदेशद्वारा देवभूमौ हिमाचले देवभाषां जनभाषां कर्तुं समाजस्य विविधक्षेत्रे कार्यं कुर्वतां संस्कृतानुरागिणां कृते संस्कृतसम्भाषणाभ्यासाय दशदिवसीयानां संस्कृतसम्भाषणवर्गाणाम् आयोजनं कृतम्। तत्र शिमला-सोलनविभागयो वर्गस्य विस्तृतं विवरणम् अधस्तात् प्रस्तूयते। सम्भाषणवर्गवर्गः - 2 (शिमला-सोलनविभागयो वर्गः) वर्गार्थिसंख्या - 16 शिक्षकः - डा. गिरिराजगौतमः (विभाग-सहसंयोजकः कांगडा) सहशिक्षकौ - - श्री लवीशकुम..
- Post By : Himachal Pradesh
- 06-10-2020

कांगडा-बिलासपुर-सोलनविभागानां संस्कृतसम्भाष..
संस्कृतभारती-हिमाचलप्रदेशद्वारा देवभूमौ हिमाचले देवभाषां जनभाषां कर्तुं समाजस्य विविधक्षेत्रे कार्यं कुर्वतां संस्कृतानुरागिणां कृते संस्कृतसम्भाषणाभ्यासाय दशदिवसीयानां संस्कृतसम्भाषणवर्गाणाम् आयोजनं कृतम्। तत्र कांगडा-बिलासपुर-सोलनविभागानां वर्गविवरणम् अधस्तात् प्रस्तूयते। सम्भाषणवर्गवर्गः - 2 (कांगडा-बिलासपुर-सोलनविभागानां वर्गः) वर्गार्थिसंख्या - 20 शिक्षकः - श्री ओंकारचन्दः (प्रान्तसम्पर्कप्रमुखः) सहशिक्षकः - - श्..
- Post By : Himachal Pradesh
- 06-10-2020

चम्बा-मण्डीविभागयोः संस्कृतसम्भाषणवर्गस्य स..
संस्कृतभारती-हिमाचलप्रदेशद्वारा देवभूमौ हिमाचलप्रदेशे देवभाषां जनभाषां कर्तुं समाजस्य विविधक्षेत्रे कार्यं कुर्वतां संस्कृतानुरागिणां कृते संस्कृतसम्भाषणाभ्यासाय दशदिवसीयानां संस्कृतसम्भाषणवर्गाणाम् आयोजनं कृतम्। संस्कृतभारत्याः सम्पर्कविभागद्वारा कृतायाः अस्याः योजनायाः क्रियान्वयनाय संस्कृतभारतीसंघटनस्य प्रान्तस्तरादारभ्य खण्डस्तरपर्यन्तं दायित्वन्तः कार्यकर्तारः सम्भूय प्रयत्नं कृतवन्तः। वर्गसञ्चालनाय आदौ सं..
- Post By : Himachal Pradesh
- 06-10-2020

साप्ताहिकसंस्कृतकक्षायाः उद्घाटनम् ०५-१०-२०२..
आत्मीयाः संस्कृतनिष्ठाः कार्यकर्तृबान्धवाः नमो नम ! साप्ताहिकसंस्कृतकक्षायाः उद्घाटनम् ०५-१०-२०२० अभवत्। प्रथमा कक्षा च सम्पन्ना। कक्षायां 35 जनाः उपस्थिताः आसन्। अस्यां कक्षायाम् अधोलिखितान् अभ्यासान् छात्रा कृतवन्तः- 1. गीतगानम् - " सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया" (श्री लवीशमहोदयः - सुश्री वैजयन्तीमहोदया च) 2. संकल्पः (ध्येयमन्त्रः) 3. अतिथि-उद्बोधनम् (श्री नरेन्द्रकुमारमहोदयः प्रान्तसङ्घटनमन्त्री संस्कृ..
- Post By : Himachal Pradesh
- 09-10-2020

सप्तदिवसीय-काव्यवर्गः दिनांक-२२-०५-२०२० तः २८-०..
संस्कृतभारती-हिमाचलप्रदेशद्वारा सद्यस्कमाध्यमेन आयोजितस्य सप्तदिवसीय-काव्यवर्गस्य प्रतिवेदनम् (२२-०५-२०२० तः २८-०५-२०२०पर्यन्तम्) [अवधिः – अपराह्णे ३ ०० तः ४ ०० वादनपर्यन्तम्] २२-०५-२०२० तः २८-०५-२०२० पर्यन्तं संस्कृतभारती-हिमाचलप्रदेशद्वारा ग्रीष्मकाले सद्यस्क-जूम-तन्त्रांश-माध्यमेन (through Onlinezoom app)सप्तदिवसीयस्यकाव्यवर्गस्य आयोजनं कृतम् । यत्र हिमाचलप्रान्तस्य प्रायेण उपपञ्चाशत् प्रतिभागिनः भागम् अगृह्णन् । हिमाचलप्रदेशे काङ्गडाज..
- Post By : Himachal Pradesh
- 02-06-2020

प्रान्तकार्यकर्तृनैपुण्यवर्गः दिनाङ्कः – 18-05-20..
प्रान्तकार्यकर्तृनैपुण्यवर्गः दिनाङ्कः – 18-05-2020 तः 20-05-2020 पर्यन्तम् समयः – 3.00 तः 5.00 पर्यन्तम् माध्यमः- ZOOM APP प्रथमदिनम् (प्रथमसत्रम् 3.00 तः 4.00 पर्यन्तम्) विषयः - संस्कृतभारतीसंघटनकार्यपरिचयः सत्रस्वीकर्ता - श्रीमान् दिनेशकामतमहोदयः (अखिलभारतसङ्घटनमन्त्री) सत्रस्वीकर्तुः परिचयकर्ता – श्रीमान् सञ्जीवकुमारः (प्रान्तमन्त्री हिमाचलप्रदेशः) सत्रसञ्चालकः - डा. मुकेशकुमारः (प्रान्तशिक्षणप्रमुखः) उपस्थितिः – प्रो. लक्ष्मीनिवासपाण्डेयः (प्र..
- Post By : Himachal Pradesh
- 02-06-2020

प्रान्तसमीक्षायोजनागोष्ठी 14-15 अप्रैल 2018 सनातनध..
प्रान्तसमीक्षायोजनागोष्ठी 14-15 अप्रैल 2018 सनातनधमयसभा- सुन्दरनगरम् जिला- मण्डी हिमाचलप्रदेशः। प्रतिवर्षं कार्यवर्षस्य आरम्भे प्रान्तस्य समीक्षायोजनागोष्ठी भवित यत्र वयं सर्वेऽपि कार्यकर्तारः मिलत्वा सम्पूर्णकार्ययवर्षस्य योजनाः गतकार्यस्य समीक्षां च कुर्मः । अस्मिन् वर्षे एषा गोष्ठी अप्रैलमासस्य 1415दिनाङ्कयोः सुन्दरनगरे भविता । संस्कृतभारत्याः कार्यं जगित व्याप्तं भवेत् तदर्थं संस्कृतं सर्वत्र-संस्कृतं सर्वेषां मध्ये ने..
- Post By : Himachal Pradesh
- 02-06-2020
