राजकीय-महाविद्यालय, शीतलाखेतम्, अल्मोड़ायां महाविद्यालयपरिसरे संस्कृतदिवसाचरणम्
30-08-2023 दिनांके राजकीय-महाविद्यालय, शीतलाखेतम्, अल्मोड़ा एवं च संस्कृतभारती अल्मोड़ा इत्यनयोः संस्थयोः संयुक्ततत्त्वावधाने महाविद्यालयपरिसरे संस्कृतसप्ताहमभिलक्ष्य संस्कृतदिवसस्य आयोजनं विहितम्।
तत्र एका विषालसंस्कृतषोभायात्रा अपि ग्रामे ग्रामे नगरे नगरे निर्गता।
अवसरेऽस्मिन् कार्यक्रमस्यास्य शुभारम्भः महाविद्यालयस्य प्राचार्येण प्रो0 ललनप्रसारवर्ममहोदयेन कृतम्। तदनन्तरम् अतिथिनां परिचयः स्वागतं च कृत्वा महाविद्यालयस्य छात्राभिः स्वागतनृत्यं प्रस्तुतम्।
कार्यक्रमेऽस्मिन् विभिन्नानां संस्कृतप्रतियोगितानाम् आयोजनं चापि विहितम्।
तत्र संस्कृतभाषणप्रतियोगिता, संस्कृतसमूहनृत्यप्रतियोगिता, संस्कृत-एकलगीतप्रतियोगिता, संस्कृतश्लोकोच्चारणप्रतियोगिता इत्यादीनां प्रतियोगितानाम् आयोजनम् अभवत्। इतः परं समस्तमहाविद्यालयीयच्छात्राः विभिन्नसांस्कृतिककार्यक्रमाणाम् आयोजनम् कृतवन्तः। तत्रापि तैः नाटकं, गीतं, नृत्यं, गायनं च कृतम्।
कार्यक्रमस्यास्य संयोजकः डॉ0 प्रकाशचन्द्रः जांगी सहायकाचार्यः संस्कृतभाषायाः महत्त्वविषये अवादीत्। संस्कृतभाषा सर्वाषां भाषाणां जननी अस्ति। संगणकस्य कृते सर्वोपयुक्ता भाषेयम्। सम्प्रति संगणकवैज्ञानिकैः कृत्रिम-बुद्धिमत्तायाः कृते इयं भाषा महत्त्वपूर्णा अस्ति इति उच्यते।
अस्माकं भारतीयसंस्कृतेराधारः संस्कृतभाषा एव अस्ति।
अवसरेऽस्मिन् महाविद्यालयस्य प्राचार्यः प्रो0 ललनप्रसादवर्मा, डॉ0 मंजरी जोषी, डॉ0 सीमा प्रिया, डॉ0 प्रकाषचन्द्रः जांगी, डॉ. दीपिका आर्या, डॉ0 खीमराजो जोशी, कमल बनकोटी, रमेश रामः, शोधच्छात्राः कमला खत्री, शोभा, साक्षी, प्रियंका बिष्ट इत्यादयः समुपस्थिताः आसन्।
वन्दे संस्कृतमातरम्।.
- Post By : Uttarakhand
- |
- 30-08-2023
- |





























