Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

02-09-2023 दिनांके हल्द्वान्यां संस्कृतसप्ताहसमारोहस्य समापनकार्यक्रम: आयोजित:।
02-09-2023 दिनांके हल्द्वान्यां श्रीदुर्गादत्तकपिलाश्रमीसंस्कृतविद्यालयस्य तथा च संस्कृतभारती हल्द्वानी नैनीतालस्य संयुक्ततत्वावधाने संस्कृतसप्ताहसमारोहस्य समापनकार्यक्रम: आयोजित:। कार्यक्रमस्यास्य प्रारम्भ: हल्द्वानिस्थ श्रीदुर्गादत्तकपिलाश्रमीसंस्कृतविद्यालयस्य छात्रै: मङ्गलाचरणं विधाय कृतम्।
सन्दर्भेस्मिन् श्लोकोच्चारणप्रतियोगाताया: आयोजनमपि जातम् अत:परं छात्रेभ्य: स्मृतिचिह्नान्यपि प्रदत्तानि। प्रतियोगितायामस्यां निर्णायकत्वेन संस्कृतभारत्या: प्रान्त-प्रचारप्रमुख: श्रीमान् जगदीशचन्द्रजोशी महोदय: तथा च विद्याभारती पूर्वछात्रपरिषदप्रान्तसहसंयोजक:,संस्कृतभारत्या: कार्यकर्ता अभिषेक परगाँई महोदय: निर्णयमकुरुताम्। अस्यां श्लोकोच्चारणप्रतियोगितायां श्रीदुर्गादत्तकपिलाश्रमीसंस्कृतविद्यालयस्य छात्रै: प्रथमतृतीयस्थानं प्राप्तं तथा च द्वितीयस्थानं श्रीसनातनधर्मसंस्कृतमहाविद्यालयस्य छात्रेण प्राप्तम्। सांत्वनापुरस्कारेण बालिकाइण्टरकालेज हल्द्वान्या: छात्रा: संतोषिता।
संस्कृतसप्ताहस्याचरणं विविधस्थलेषु विविधै: संस्कृतानुरागिभि: अनुष्ठीयमानं वर्तते। संस्कृतसप्ताहाचरणस्य मुख्यप्रयोजनं संस्कृतभाषाया: प्रचारप्रसार: वरीवर्ति। कार्यक्रमेस्मिन् मुख्यातिथित्वेन राष्ट्रियस्वयंसेवकसङ्घस्य जनपदबौद्धिकप्रमुख: श्रीमान् राजकुमारसिंहमौरावर्य: आसीत्। असौ महोदय: निजोद्बोधने अवोचत् संस्कृतभाषाविश्वस्य श्रेष्ठाभाषा अस्ति, अस्या: भाषाया: प्रासङ्गिकता न केवलं भारते अपितु सम्पूर्णेपि विश्वे दरीदृश्यते।
सन्दर्भेस्मिन् मुख्यवक्त्रा प्रान्तसहमन्त्री डॉ चन्द्रप्रकाश उप्रेती महोदयेन प्रोक्तं संस्कृतमाप्राक्कालादेव अस्माकं जनभाषा वर्तते। संस्कृतमस्मान् जीवनकौशलं शिक्षयति। अस्यां भाषायां निहितमूल्यानि विश्वकल्याणे, विश्वशान्तौ च निजमहनीयभूमिकामोढुमर्हन्ति। संस्कृतं भारतस्य आत्मतत्वमस्ति संस्कृतं विना भारतस्य कल्पनापि कर्तुमशक्या।
कार्यक्रमस्य आध्यक्षता श्रीमत्या जानकी त्रिपाठी महोदया अकरोत्। अनया निज उद्बोधने कथितं संस्कृतं जनभाषां कर्तुमस्माभि संस्कृतशिविराणां माध्यमेन संस्कृतस्य सरलरूपं जनानां पुरस्तादुपस्थापनीयं भविष्यति तेन जना: संस्कृतं प्रति आकृष्टा: भविष्यन्ति। अवसरेस्मिन् विद्यालयप्रधानाचार्येण डॉ राजेंद्र भट्ट महोदयेन उक्तं संस्कृतं देवभाषावर्तते तथा च तस्या: संरक्षणाय वयं कटिबद्धरूपेण सन्नद्धा: स्म।
कार्यक्रमस्यास्य सञ्चालनं नैनीतालविभागसंयोजकेन डॉ. जगदीश चन्द्र पाण्डे महोदयेन विहितम्। अतिथिपरिचयं डॉ. कैलाश सनवाल महोदयेन कारितम्। धन्यवाद ज्ञापनं नैनीतालजनपदसंयोजकेन डॉ. नीरजजोशीमहोदयेन कृतम्।
अवसरेस्मिन् कैलाश पंत वर्य:, डॉ. नवीन चन्द्र जोशी महोदय:, डॉ. ललित पाण्डे महोदय:, श्रीपवनकुमार झाँ वर्य: ,श्रीनारायण थुवाल वर्य: , श्रीविनोद जोशी महोदय: इतोपि विद्यालयस्य अध्यापका: छात्राश्च उपस्थिता: आसन्।
वन्दे संस्कृतमातरम्।.


  • Post By : Uttarakhand
  • |
  • 03-09-2023
  • |