श्रीमतः सुरेशसोनिमहोदयस्य अमृतम्-नूतनप्रान्तकार्यालयस्य सन्दर्शनम्
विजयवाटिकानगरे अस्माकम् आन्ध्रप्रदेशस्य संस्कृतभारत्याः नूतनप्रान्तकार्यालयं प्रति 17-11-2024दिनाङ्के भाग्यवशात् राष्ट्रीय स्वयंसेवक संघस्य अखिलभारतकार्यकारिणी सदस्यः, संस्कृतभारत्याः आखिलभारतमार्गदर्शकः श्री सुरेश सोनिमहोदयः समागच्छत् । अपि च श्रीसोनीमहोदयस्य करकमलाभ्यां साहित्यविक्रयणकेन्द्रस्य प्रारम्भोत्सवः सञ्जातः। अस्य कार्यक्रमस्य सिद्धतायां राष्ट्रियसंस्कृतविश्वविद्यालयस्य दशच्छात्राः तिरुपतितः आगत्य दिनत्रयं अमृतं कार्यालये स्थित्वा पुस्तकविक्रयणकेन्द्रस्य सज्जीकरणे परिश्रमं कृतवन्तः। तेभ्यः प्रान्तसमितिपक्षतः अभिनन्दनानि। कार्यक्रमेऽस्मिन् अ.भा.सं.बालकेन्द्रप्रमुखः डा.उ.वेङ्कटरमणमूर्तिः, प्रान्ताध्यक्षः श्रीजन्नाभट्ल चन्द्रशेखरमहोदयः, प्रान्तमन्त्री डा.नन्दनरावः, प्रान्तबालकेन्द्रप्रमुखा श्रीमती अरुणा भगिनी, प्रान्तप्रचारप्रुमखः श्रीशिवरामकृष्णः, रा.स्व.से.सङ्घस्य आन्ध्रप्रदेशस्य सहक्षेत्रप्रचारकः श्रीभरतमहोदयः, प्रान्तप्रचारकः श्रीआदित्यमहोदयः च कार्यक्रमे आसन्। श्रीसोनिमहोदयः नूतनतया निर्मितं स्टूडियाो एवमेव बालकेन्द्रं च वीक्ष्य संतुष्टः अभवत्।.
- Post By : Andhra Pradesh
- |
- 12-12-2024
- |








.jpeg)