Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

17-03-24 दिनाङ्के द-न्यू-स्कॉलर-विद्यालये दशदिवसीय सम्भाषणशिबिरस्य समापनम् |
१७-०३-२०२४ दिनाङ्के नैनीतालजनपदस्य लालकुआं-बिन्दुखत्ता इति क्षेत्रे द-न्यू-स्कॉलर-विद्यालये संस्कृतभारती उत्तराञ्चलम् द्वारा चालितस्य दशदिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समापनकार्यक्रमस्य आरम्भः अतिथिभिः दीपप्रज्ज्वालनेन कृतम्|
तदनन्तरं छात्रा स्वातिः ध्येयमन्त्रं प्रस्तुतवती।अस्मिन् अवसरे मुख्यातिथिः, संस्कृतभारती उत्तराञ्चालस्य प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी उक्तवती यत् भाषा केवलं वार्तालापद्वारा, निरन्तर-अभ्यासेन च आगच्छति, अतः अस्माभिः सर्वैः संस्कृतं वक्तुं प्रयत्नः करणीयः।इयं भाषा अतीव शुद्धा, परिष्कृता, वैज्ञानिका च अस्ति ।
मुख्यवक्ता डॉ. हेमन्त जोशी संस्कृतभारत्याः कार्याणां विषये बोधयन् अवदत् यत् सम्प्रति संस्कृतभारती विश्वस्य २९ देशेषु संस्कृतभाषा जनानां मध्ये प्रसारयितुं सक्रियरूपेण कार्यं कुर्वती अस्ति। अस्यां भाषायां निगूढा अपारज्ञाननिधिः अस्ति एषा भाषा संस्काराणां जननी अस्ति। अस्माकं संस्कृतिः संस्कृताश्रिता अस्ति। एषः भारतस्य आत्मा वर्तते |
विशिष्टातिथि: समाजसेवकश्च मोहितगोस्वामीमहोदयः अवदत् यत् संस्कृतस्य प्राचीनग्रन्थेषु विज्ञानस्य अनेकाः पद्धतयः ज्ञानं च निहिताः सन्ति। संस्कृतभाषाशिक्षणेन वयं शास्त्रेषु निहितं ज्ञानं विश्वमञ्चे आनेतुं शक्नुमः। तेन संस्कृतभाती द्वारा क्रियमाणां कार्याणां प्रसंशा कृता ।
संस्कृतभारत्याः प्रान्तप्रचारप्रमुखः शिविरशिक्षकः च जगदीशचन्द्र जोशी अतिथिपरिचयं कुर्वन् दशदिनानां अनुभवान् कथयन् कार्यक्रमे आगतानां अतिथिभ्यः अपि धन्यवादं दत्तवान्।
कार्यक्रमसंयोजकः विद्यालयप्रबन्धकः च श्री मुकेश जोशी सर्वेषां अतिथिनां स्वागतं कृत्वा संस्कृतभारत्या: कार्याणां प्रसंशां अकरोत्| भविष्ये अपि एतादृशं कार्यं कर्तुम् इच्छां प्रकटितवान्। सः अवदत् यत् अस्मिन् सम्भाषणशिबिरे विद्यालयस्य बहवः छात्राः दशदिनानि यावत् संस्कृतसम्भाषणं पठितवन्त:। कार्यक्रमं सम्बोधयन् पत्रकारः श्रीहरीश भट्टः अवदत् यत् वयं अत्यल्पप्रयत्नेन संस्कृतं शिक्षितुं शक्नुमः यतोहि एषा भाषा अस्माकं भारतीयानां स्वकीया भाषा अस्ति।
कार्यक्रमे छात्राः प्रकाश रुवाली, कु. स्वाती, भरत, कृष्ण, लक्ष्मी च शिबिरस्य स्वस्य अनुभवान् अकथयन्|
अवसरsस्मिन् प्रान्तसहमन्त्री डॉ. चन्द्रप्रकाश उप्रेती, नैनीतालविभागसंयोजक: डॉ. जगदीशचन्द्रपाण्डेयः, स्वाती, भरतः, कृष्णः, आकांक्षा इत्यादयः अनेके संस्कृतविद्वांसः ,विद्यालयशिक्षका: शिविरार्थिनः च उपस्थिताः आसन् ।.


  • Post By : Uttarakhand
  • |
  • 18-03-2024
  • |