Top
Samskrita Bharati - North Tamilnadu
संस्कृतभारती - उत्तरतमिळनाडु
Latest Media & News
Preview Media & News

चेन्नैनगरे प्रचारकार्यशाला
चेन्नैनगरे प्रचारकार्यशाला

सेप्टेम्बर्-मासस्य द्वाविंशति-दिनाङ्के प्रभावकरं संस्कृतभाषा-प्रचारं कर्तुं
एकदिवसीया प्रान्तस्तरीया-विशेषकार्यशाला समायोजिता आसीत् ।
पञ्चचत्वारिंशत्-प्रान्तकार्यकर्तृभिः उपस्थितायाम् अस्यां कार्यशालायां प्रचार्-
उपयोगीनि विविध-माध्यमानि प्रदर्शितानि । प्रचारे युक्तायुक्तविषयाः विशदतया
चर्चिताः । प्रान्तसहमन्त्री सन्तोषवर्यः स.भा. सङ्घटनस्य परिचयं प्रदर्श्य
तदीयप्रचारसम्भावनाः विस्तरेण पर्यालोचयत् । महानगरकार्यदर्शिना श्रीरामवर्येण
प्रचारमाध्यमानि क्रमेण सन्दर्शिनीद्वारा संवेदितानि । राष्ट्रीयस्वयं-सेवासङ्घस्य
महानगरप्रचारप्रमुखः श्री.कृष्णकुमार्वर्यः प्रचारगतिविधीन् उद्बोधितवान् ।
विष्वसंवादकेन्द्रस्य उत्तरतमिळ्नाडु-प्रमुखा श्रीमती रमा अभिलेखनस्य मुख्यत्वं
तदीयां प्रक्रियां च उपस्थापितवती। समारोपसत्रे व्यक्तिविकासीय-प्रशिक्षकः
श्री.शिवकुमारवर्यः प्रोत्साहकारिणीः कथाः उक्त्वा कार्यकर्तृन् प्रैरयत् । क्षेत्रमन्त्री-
श्रीरामवर्यः स्वकीये भाषणे कार्यशालायां चर्चितानि माध्यमानि प्रवेशयोजनायां
क्रियान्वयं करवाम इति अवदत् ।.


  • Post By : North Tamilnadu
  • |
  • 24-09-2019
  • |