Top
Samskrita Bharati - Andhra Pradesh
संस्कृतभारती - आन्ध्रप्रदेशः
Latest Media & News
Preview Media & News

सप्तदिवसीया अन्ताराष्ट्रिया ग्रन्थाध्ययनकार्यशाला दिनाङ्क - २०-२६.१०.२०२२
संस्कृतभारत्या आन्ध्रप्रदेशप्रान्तस्य विद्वत्परिषदा २०.१०.२०२२ दिनाङ्कत २६.१०.२०२२ दिनाङ्कं यावत् सर्वेषां व्याकरणमधिजिगांसमानानामध्येतॄणां कृते वैयाकरणसिद्धान्तकौमुद्या आत्मनेपदपरस्मैपदप्रकरणे अधिकृत्य सप्तदिवसात्मिका अन्ताराष्ट्रिया ग्रन्थाध्ययनकार्यशाला अन्तर्जालमाध्यमेन समायोज्यत । अस्यां कार्यशालायां देशविदेशेभ्य अध्येतार समागमन् । उद्घाटनसमारोह - अस्या कार्यशालाया उद्घाटनकार्यक्रम २०.१०.२०२२ दिनाङ्के अन्तर्जालमाध्यमेन समनुष्ठित । उद्घाटनसमारोहे सप्तदिवसात्मककार्यशालाया उद्घाटकत्वेन राष्ट्रियसंस्कृतविश्वविद्यालयस्य नवनियुक्त साहित्यव्याकरणादिशास्त्रनिष्णात मान्य कुलपति आचार्य गुल्लपल्लिश्रीरामकृष्णमूर्तिमहोदय समुपस्थाय वाक्यप्रयोगावसरे निमित्तभेदमाश्रित्य आत्मनेपदपरस्मैपदप्रयोगवैशिष्ट्यं प्रत्यपादयत् सर्वानुदबोधयच्च । एवमेव संस्कृतभारत्या आन्ध्रप्रदेशप्रान्तस्य उपाध्यक्ष उद्घाटनसमारोहस्य अध्यक्ष च श्रीमान् जे.के.चन्द्रशेखरमहोदय आध्यक्षं वच वदन् आत्मनेपदपरस्मैपदप्रकरणयो महत्त्वं प्रत्यपादयत् । अस्या कार्यशालाया संयोजक अध्यापक संस्कृतभारत्या अन्ध्रप्रदेशप्रान्तस्य विद्वत्परिषत्प्रमुख च डा.शिवरामभट्ट उद्घाटनसमारोहस्य संचालनम् अकरोत् । समापनसमारोह - अस्या सप्तदिनात्मिकाया ग्रन्थाध्ययनकार्यशालाया समापनसमारोह २६.१०.२०२२ दिनाङ्के सायं सप्तवादने अन्तर्जालमाध्यमेन समायोज्यत । तत्रादौ राष्ट्रियसंस्कृतविश्वविद्यालयस्य व्याकरणच्छात्रा कुमारी शेषसुधामाधुरी सरस्वतीविषयकं लौकिकमङ्गलाचरणम् अकरोत् । सप्तसु दिवसेषु सहभागं गृहीतवन्त प्रतिनिधिरूपेण केचन अध्येतार स्वानुभवं सन्दर्भऽस्मिन् प्राकटयन् । समापनसमारोहेऽस्मिन् संस्कृतभारत्या दक्षिणमध्यक्षेत्रस्य अध्यक्ष महामहोपाध्याय शतावधानी कवि आचार्य दोर्बलप्रभाकरशर्ममहोदय मुख्यातिथित्वेन उपस्थाय शास्त्राणां महत्त्वप्रतिपादनपुरस्सरम् आत्मनेपदपरस्मैपदप्रयोगवैशिष्ट्यं न्यरूपयत् । एवं संस्कृतभारत्या आन्ध्रप्रदेशप्रान्तस्य उपाध्यक्ष समापनसमारोहस्य अध्यक्ष च श्रीमान् जे.के.चन्द्रशेखरमहोदय आध्यक्षं भाषणं कुर्वन् अधीतस्य प्रकरणद्वयस्य प्रायोगिकरूपेण व्यवहारे प्रयोक्तुम् आग्रहम् अकरोत् । येन अधीतस्य विषयस्य सार्थक्यं निरन्तरं प्रयोगवैशद्यं च अध्येता प्राप्नुयात् इति कार्यशालाया व्यावहारिकं महत्त्वं प्रत्यपदयत् । समापनसमारोहस्य संचालनं अस्या कार्यशालाया संयोजक अध्यापकश्च संस्कृतभारत्या अन्ध्रप्रदेशप्रान्तस्य विद्वत्परिषत्प्रमुख डा.शिवरामभट्ट अकरोत् । अस्यां कार्यशालायां सप्तसु दिवसेष्वपि तान्त्रिकसाह्यम् अकरोत् आन्ध्रप्रदेशप्रान्तस्य प्रचारप्रमुख डा. कुमारबागेवाडीमठमहोदय । अस्यां कार्यशालायां ७० सहभागिन भागमगृह्णन् । पाठस्य समनन्तरं प्रश्नोत्तरस्य अवसर आसीत् । येन अध्येतार स्वसन्देहनिवारणं प्राप्नुवन् । समापनसमारोहे संस्कृतभारत्या कार्यकर्तार प्रान्तगणसदस्या संस्कृतानुरागिण छात्रा अध्यापकाश्च उपस्थिता आसन् । इत्थम् अन्तर्जालमाध्यमेन आयोजितेयं कार्यशाला समपद्यत ।
YouTube links –
1. https //youtu.be/kC3kQcYX6Uc
2. https //youtu.be/mVMdfF0NMng
3. https //youtu.be/VqDmCzKQXi8
4. https //youtu.be/8fPy4DtfrTA
5. https //youtu.be/d_6XShdl-8U
6. https //youtu.be/1uytVVi_cJw
7. https //youtu.be/XzR-vq-tYCU.


  • Post By : Andhra Pradesh
  • |
  • 16-01-2023
  • |