कोयम्बत्तूरु नगरे अखिल - भारतीयम् अधिवेशनं
कोयम्बत्तूरु नगरे अखिल - भारतीयम् अधिवेशनं सवैभवं सम्पन्नम् ।
श्रीरमेशकुमार पाण्डेयवर्यः नूतनः अखिलभारतीयः अध्यक्षः इति चितः ।
अस्माकं प्रान्ते अपि कतिचन परिवर्तनानि जातानि ।
श्रीगुरुराव कुलकर्णी प्रान्त - उपाध्यक्षः,
श्रीसन्तोषः प्रान्तमन्त्री ,
श्रीमतीभाग्यलक्ष्मीः क्षेत्रस्य महाविद्यालयकार्यप्रमुखा,
श्री सत्यनारायणः ( मंगलूरु)
सहप्रान्तमन्त्री , श्रीमनोजः प्रान्तसम्पर्कप्रमुखः , श्रीमती प्रेमा हेगडे - प्रान्तश्लोक पाठनकेन्द्र प्रमुखा , श्रीमहाबल रावः - प्रान्त महाविद्यालयकार्यप्रमुखः , श्रीश्रीधरः गीताशिक्षण - केन्द्रप्रमुखः इत्यपि घोषितम् ।
क्षेत्रसंघटनमन्त्रिणः केन्द्रम् इतःपरं हुब्बल्ली , मम (लक्ष्मीनारायणस्य) केन्द्रम् - बेंगलूरु इत्यपि सूचितम् ।
अ.भा.स्तरे अपि बहूनि परिवर्तनानि जातानि - श्रीदिनेश कामतवर्यः अ.भा. गणसदस्यः , श्रीसचिन काठाले अ.भा. प्रकाशनप्रमुखः इति घोषितम् ।.
- Post By : South Karnataka
- |
- 13-11-2025
- |


























