Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

15-09-24 दिनाङ्के अखिलभारतीयगोष्ठ्या: हरिद्वारे मुख्यमंत्रीपुष्करसिंहधामीवर्येण उद्घाटनं कृतं
संस्कृतभारत्याः अखिलभारतीयगोष्ठी 15 सितम्बर 2024 दिनाङ्के श्रीव्यासमन्दिरे, हरिपुरकलाहरिद्वारे आरब्धा। यस्य उद्घाटनं मुख्यमंत्रीपुष्करसिंहधामीवर्येण दीपप्रज्ज्वालनेन कृतं। अवसरेस्मिन् स्वामीचिदानंदसरस्वतीमहाराज: अध्यक्ष:, परमार्थनिकेतन-आश्रम-ऋषिकेशत:, कार्यक्रमाध्यक्ष: प्रो.गोपबंधुमिश्र: (अखिलभारतीयाध्यक्ष: संस्कृतभारतीत:), विशिष्टातिथि: श्रीमती जानकी त्रिपाठी (प्रान्ताध्यक्षा संस्कृतभारती-उत्तराञ्चलत:) दिनेशकामत: संस्कृतभारती-अखिलभारतीयसंगठनमंत्री, प्रो. वाचस्पति: मिश्र:, डॉ. अंकितवर्मा आदय: उपस्थिता: आसन् । डॉ. वेदव्रतः सर्वेषां अतिथिनां परिचयं कृतवान्। डॉ. अरुणमिश्रा वैदिकमंगमलमाचरितवान् । रुद्राक्षमालया, गंगाजलेन, अंगवस्त्रेण च सर्वेषाम् अतिथीनां अञ्जनीमूर्तैः स्वागतं जातं।
अखिलभारतीयसङ्गठनमन्त्री संस्कृतभारती श्रीदिनेशकामतः उक्तवान् यत् संस्कृतभारतीसंस्था २६ देशेषु संस्कृतकार्यं कुर्वती अस्ति। सरलसंस्कृतसम्भाषणेन सह संस्कृतभारती सरलसंस्कृतं, पुस्तकलेखनम्, निःशुल्कस्वाध्ययनकेन्द्रं,दशदिवसीयसम्भाषणशिबिरं,बालकेन्द्रं,गीताशिक्षणकेन्द्रं, संस्कृतसप्ताहं ,खण्डस्तरे, जिल्लास्तरे, राज्यस्तरे च आयोजयति । लोकसभायां राज्यसभायां च नवनिर्वाचितैः सांसदैः संस्कृतेन शपथग्रहणं कृत्वा सर्वेभ्यः धन्यवाद: प्रदत्त: । उत्तराखण्डराज्यस्य द्वितीया राजभाषा संस्कृतम् अस्ति तथा च उत्तराखण्डे विद्यालयशिक्षणे संस्कृतं अनिवार्यं भवेत्। नूतनशिक्षानीत्या: अन्तर्गतं संस्कृतभाषा तृतीयकक्षातः १२ कक्षापर्यन्तं भारतीयज्ञानपरम्परायाः अन्तर्गतं विषयरूपेण अनिवार्यतया पाठनीया। स आह यत् संस्कृतं न जानाति स: भारतं कथं ज्ञास्यति। सः सर्वान् संस्कृतभाषायां वक्तुं कार्यं कर्तुं च प्रेरितवान् ।
कार्यक्रमे पावनसानिध्ये स्वामीचिदानन्दसरस्वती उक्तवान् यत् संस्कृतभारती अद्य देशस्य अन्तः विदेशपर्यन्तं संस्कृतसम्भाषणस्य गौरवं प्राप्तवती अस्ति। आगमिष्यमाणः युगः संस्कृतस्य भविष्यति इति सः अवदत्।
मुख्यमन्त्री श्रीपुष्करसिंहधामी, अखिलभारतीयगोष्ठीम् सम्बोधयन् उत्तराखण्डपक्षतः गोष्ठ्या: सम्पूर्णभारतीयप्रतिनिधिनां स्वागतं कृतवान्। सः अवदत् यत् अद्यत्वेऽपि संस्कृतं केवलं व्यञ्जनं न अपितु संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा अस्ति, संस्कृतं सर्वभाषाणां जननी अस्ति। प्राचीनकालात् एव अद्यपर्यन्तं संस्कृतम् अस्माकं ज्ञानभाषा अस्ति। वैश्विकसन्दर्भस्य प्रमाणरूपेण सः अवदत् यत् अन्ताष्ट्रियस्तरस्य ग्रहनक्षत्राणां कालगणनायाः औषधानां च कृते संस्कृतग्रन्थाः प्रमाणरूपेण उद्धृताः भवन्ति। संस्कृतभाषायाः अक्षरोच्चारणस्य वैज्ञानिकतां व्याख्याय सः अवदत् यत् संस्कृतस्य शब्दोच्चारणे कोऽपि अक्षरः नष्टः न भवति, आङ्ग्लभाषायां तु नष्ट: भवति। अपि च उक्तं यत् संस्कृतं सम्पूर्णतया शुद्धा वैज्ञानिकभाषा अस्ति।
संस्कृतव्याकरणस्य उदाहरणं दत्त्वा सः अवदत् यत् संस्कृतभाषायां वाक्ये शब्दान् अग्रे-पश्चात् स्थापनेन अपि तस्य अर्थे कोऽपि प्रभावः न भवति, अन्यभाषासु तु अर्थविविधता भवति। सः अवदत् यत् संस्कृते एकस्मिन् अक्षरे श्लोकं रचयितुं सामर्थ्यं वर्तते। विश्वे अन्यस्या: कस्यापि भाषायाः एतादृशी शक्तिः नास्ति । अस्मिन् समये मुख्यमन्त्री ग्रीष्मकालीनराजधानी गैरसैणसभायां आयोजितस्य संस्कृतसम्भाषणस्य अपि उल्लेखं कृतवान् । सः अवदत् यत् वयं राज्ये संस्कृतसंर्वधनस्य कृते प्रयत्नाः जायन्ते। संस्कृतभारती-उत्तराञ्चालस्य न्यासी प्रो. प्रेमचन्दशास्त्री सर्वातिथिभ्यः धन्यवादं दत्तवान्।
डॉ. प्रकाशपन्तः उत्तराखण्डस्य स्थानस्य परिचयं कुर्वन् अवदत् यत् उत्तराखण्डे १२ शताब्द्याः संस्कृतलेखनपरम्परायाः प्रमाणानि सन्ति। राजाललितसुरदेवस्य लेखनानि वर्णयन् सः अवदत् यत् तत्कालीनस्य पर्वतराज्यस्य राजभाषा अपि संस्कृतम् एव आसीत् । अद्यत्वेऽपि उत्तराखण्डे भन्तोला (बागेश्वरं) किमोठा (चमोली) इति संस्कृतग्रामद्वयं वर्तते ।
डॉ. भारतीकन्नौजिया शान्तिपाठेन सत्रं समाप्तं कृतवती। प्रान्तमन्त्री गिरीशतिवारी मंचसंचालनं कृतवान् । अस्मिन् अवसरे उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो.दिनेशचन्द्रशास्त्री, संस्कृतशिक्षासचिवः श्री दीपककुमारः, संस्कृतशिक्षानिदेशकः डॉ. आनन्दभारद्वाजः, प्रो.लक्ष्मी निवासपाण्डेयः, दत्तात्रेयवर्य: , डॉ. संजीवः, डॉ. सचिनकठाले, डॉ. देवेन्द्रपण्ड्या, च भारतस्य सर्वेभ्यः राज्येभ्यः संस्कृतभारत्या: प्रतिनिधय: उपस्थिताः आसन्।
वन्दे संस्कृतमातरम्.


  • Post By : Uttarakhand
  • |
  • 17-09-2024
  • |