14,15,16, सितम्बरमासे हरिद्वारे भविष्यति अखिलभारतीयगोष्ठी |
संस्कृतेन देशस्य च विश्वस्य कल्याणाय चिन्तनस्य पंचमचरणे प्रयासरता संस्कृतभारती। संस्कृतभारत्या: त्रिदिवसीया अखिलभारतीया संगोष्ठी हरिद्वारे भविष्यति। 14,15,16, सितम्बरमासे श्रीव्यासमन्दिरे गीताकुटीरसमीपे, हरिपुरकलाहरिद्वारे सम्पत्स्यते संगोष्ठी । संस्कृतकार्याय कार्यकर्तृभि: स्वीकृत: दृढसंकल्प:। संगोष्ठ्या: सम्मेलने भविष्यति संस्कृतप्रदर्शनी प्रभावी। संगोष्ठ्यां भविष्ययोजनाविषये विभिन्नचर्चा: भविष्यन्ति। संस्कृतभारत्याः १९८१ वर्षत: कार्यं अद्यावधिपर्यन्तम् निरन्तरं संजायते। संस्कृतभारत्या: ४३ वर्षत: निरन्तरं सम्भाषणान्दोलनेन कोटिश: जना: संस्कृतेन वदन्ति। विभिन्नराज्यतः सहस्रश: कार्यकर्तारः अखिलभारतीयगोष्ठ्यां भागं वक्ष्यन्ति। देशप्रदेशयो: संस्कृतविद्वांस: मन्त्रिगणाश्च सम्मेलने प्रतिभागं करिष्यन्ति। संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः च बालकाः अपि संगोष्ठ्यां भविष्यन्ति सम्मिलिता:। संगोष्ठीसज्जतायै कार्यकर्तृणां कटिबद्धकार्यं शीर्षस्तरे संजायते। .
- Post By : Uttarakhand
- |
- 12-09-2024
- |





























