Latest Media & News
Preview Media & News
प्रान्तस्तरीयं कार्यकतृसम्मेलनम्
संस्कृतभारत्याः कार्यदृढीकरणाय सङ्घटनस्य विकासाय कार्यविस्ताराय च कार्यकतॄणां मेलनं सामूहिकं चिन्तनं ज्येष्ठानां मार्गदर्शनं च मध्ये मध्ये अपेक्षितम् । अत एव 24/25.12.2021 दिनाङ्कयोः प्रान्तस्तरीयं कार्यकतृसम्मेलनं गुण्टूरुजनपदे जिल्लेलमुडि इति ग्रामे आयोजितम् । अस्मिन् सम्मेलने कार्यपद्धतिः सङ्घटनं बालकेन्द्रं Online शिबिराणि प्रशिक्षणवर्गः सम्पर्कः प्रचारः कार्यकतॄणां भाषाशुद्धिः च इत्यादिषु विषयेषु सविस्तरं चर्चां कृतवन्तः । सम्मेलनेऽस्मिन् 9 जनपदेभ्यः आहत्य 76 कार्यकर्तारः भागम् अवहन् ।.
- Post By : Andhra Pradesh
- |
- 30-12-2021
- |








.jpeg)