Top
Samskrita Bharati - Gujrat
संस्कृतभारती - गुजरात
Latest Media & News
Preview Media & News

विद्वत्परिषत् द्वारा द्विदिवसीया राष्ट्रिय-संगोष्ठी " संस्कृतवाङ्मये नगररचना"
श्रीसोमनाथसंस्कृतविश्वविद्यालयः-सोमनाथं सरदारपटेलविश्वविद्यालयः-वल्लभविद्यानगरं विद्वत्परिषत्-संस्कृतभारती चेत्येतेषां संयुक्तोपक्रमेण द्विदिवसीया राष्ट्रीयसङ्गोष्ठी " संस्कृतवाङ्मये नगररचना" इति विषये मार्चमासस्य षड्-सप्तदिनाङ्कयोः भविष्यति । राष्ट्रीयसङ्गोष्ठी इयम् गुजरातस्य आणन्दजनपदे सरदारवल्लभपटेलविश्वविद्यालये समायोजिता भविष्यति ।
संस्कृतसाहित्ये वास्तुशास्त्रान्तर्गतं मानसारः मयमतम् समराङ्गणसूत्रधारः इत्यादिग्रन्थेषु नगररचनाविषये बहुलं विवरणं वर्तते एव । किञ्च काव्येषु नाटकेषु पुराणेषु चापि नगराणां वर्णनानि समुपलभ्यन्ते । इत्थं नगररचनाविषये सैद्धान्तिकं वर्णनात्मकं चेति द्विविधं ज्ञानं विद्यते संस्कृतवाङ्मये । सर्वकारस्य उत्खननविभागद्वारा कृते उत्खनने संशोधने च बहूनि पाचीननगराणि अपि प्राप्तानि । तेषु गुजराते द्वारिका-धोळावीरा-लोथलादिस्थानानि सुप्रसिद्धानि सन्ति एव । पुरा संरचिताः अयोध्या-उज्जैनी-काशी-द्वारिकादयः नगर्यः भारतीयनगररचनायाः प्रत्यक्षोदाहरणत्वेन इतोऽपि वर्तन्ते । एतेषु स्थानेषु नगररचनाधारितं चिन्तनम् अस्यां सङ्गोष्ठ्यां भविष्यति ।
उपरोक्तं विषयम् आधारीकृत्य कृतभूरिपरिश्रमाणां विशिष्टविदुषां शोधपूर्णाः प्रस्तुतयः भविष्यन्ति ।
विशेषविवरणाय अधोलिखितानां सम्पर्कः करणीयः दीपेशकतिरा ९४०८७०५२७८ डो. ललितपटेलः ९८७९८३४०७१.


  • Post By : Gujrat
  • |
  • 03-02-2019
  • |