Top
Samskrita Bharati - Utkal
संस्कृतभारती - उत्कल
Latest Media & News
Preview Media & News

आवासीयः प्रान्तीयः प्रबोधनवर्गः - 2021
नमो नमः मित्राणि
2021 तमवर्षस्य डिसेम्बरमासस्य 25 26 27 28 29 दिनाङ्केषु एकः प्रान्तीयः प्रबोधनवर्गः समायोजितः संस्कृतभारती उत्कलप्रान्तेन । एषः वर्गः सम्पूर्णतया आवासीयः अस्ति । ये जनाः आनलाईनमाध्यमेन सम्भाषणशिबिरे अथवा भाषाबोधनवर्गे भागं गृहीतवन्तः तादृशानां कृते अत्र अवसरः अस्ति । समग्रप्रान्ततः प्रायः उपशतं शिक्षार्थिनः अत्र भागं स्वीकरिष्यन्ति । वर्गे सम्पूर्णं संस्कृतमयं वातावरणं भविष्यति । सरलसंस्कृतस्य अभ्यासः संस्कृतेन संस्कृतस्य अध्यापनम् भाषाक्रीड़ाः शिक्षणसामग्रीनिर्माणम् संस्कृतगीतानां सस्वरम् अभ्यासः विदुषां ज्येष्ठानां मार्गदर्शनम् इत्यादयः वर्गस्य महत्त्वं वर्धयन्ति ।.


  • Post By : Utkal
  • |
  • 22-12-2021
  • |