Top
Samskrita Bharati - North Tamilnadu
संस्कृतभारती - उत्तरतमिळनाडु
Latest Media & News
Preview Media & News

राज्यस्तरीया एकदिनात्मिका संस्कृतसङ्गोष्ठी | विषयः - सिलप्पधिकारे साहित्यसङ्गीतकलाविषयाः
संस्कृतभाषायाः सर्वतोमुखविकासाय कृतभूरिपरिश्रमिणी संस्कृतभारती २०१९ संवत्सरे एप्रिल्-मासे (२७-४-२०१९ स्थिरवासरे) एकदिनात्मिकां राज्यस्तरीयां संस्कृतसङ्गोष्ठीं समाचरितुं कृतनिश्चयास्ति । विषयज्ञाः विपश्चितश्च सङ्गोष्ठ्यामस्यां भागं ग्रहीतुं प्रभाषितुं च आमन्त्रिताः सन्ति । प्राचार्याः व्याख्यातारश्च लेखान् लिखित्वा प्रेष्यतां तान् यथायोग्यं प्रकाशयिष्यामः । शोधच्छात्राः भागं गृहीत्वा विषयप्रस्तुतिं कर्तुमर्हन्ति । यथेच्छं विषयमादाय संस्कृतभाषया अथवा तमिळ्भाषया स्वकीयविचारान् सप्रमाणं शोधपरकं लेखं A4 चतुष्पुटपरिमिते पत्रे (4 pages in A4 size) प्रस्तौतुं तत्रभवन्तः विद्वत्तल्लजाः सादरं समाहूयन्ते । योग्यानि पत्राणि संस्कृतभारत्या प्रकाश्यमानायां शोधपुस्तिकायां प्रकाशयिष्यन्ते ।

पत्राणि वैद्युतसन्देशद्वारा (E-mail) 13.04.2019 दिनाभ्यन्तरे प्रेषणीयानि (Arial unicode/sanskrit 2003 word and PDF)
पञ्जीकरणम् - 01.04.2019 दिनाभ्यन्तरे । पञ्जीकरणपत्रमनेन संलग्नम् ।
संपर्कसङ्केतः sbseminar2019@gmail.com

सर्वेषां स्वागतं व्याह्रियते ।
कृपया स्वागमनं पञ्चीकुर्वन्तु -9486689375/9840769113.


  • Post By : North Tamilnadu
  • |
  • 22-04-2019
  • |