Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

सप्तदिवसीय-काव्यवर्गः दिनांक-२२-०५-२०२० तः २८-०५-२०२० पर्यन्तम् अवधिः–अपराह्णे ३ तः ४ पर्यन्त
संस्कृतभारती-हिमाचलप्रदेशद्वारा सद्यस्कमाध्यमेन आयोजितस्य सप्तदिवसीय-काव्यवर्गस्य
प्रतिवेदनम्
(२२-०५-२०२० तः २८-०५-२०२०पर्यन्तम्)
[अवधिः – अपराह्णे ३ ०० तः ४ ०० वादनपर्यन्तम्]

२२-०५-२०२० तः २८-०५-२०२० पर्यन्तं संस्कृतभारती-हिमाचलप्रदेशद्वारा ग्रीष्मकाले सद्यस्क-जूम-तन्त्रांश-माध्यमेन (through Onlinezoom app)सप्तदिवसीयस्यकाव्यवर्गस्य आयोजनं कृतम् । यत्र हिमाचलप्रान्तस्य प्रायेण उपपञ्चाशत् प्रतिभागिनः भागम् अगृह्णन् । हिमाचलप्रदेशे काङ्गडाजनपदे बलाहरस्थितस्यकेन्द्रीयसंस्कृतविश्वविद्यालयस्य वेदव्यासपरिसरस्य साहित्यविभागाध्यक्षः आचार्यः सुज्ञानकुमारमाहान्तिमहोदयः शिक्षकत्वेन शिक्षणं प्रावर्तयत् । प्रान्तपक्षतः चिताः प्रतिभागिनः सरलतया सहजतया च काव्यशास्त्रे अध्ययनदृष्टिं प्राप्नुयुः’ इति अस्य काव्यवर्गस्य मुख्यम् उद्देश्यम् आसीत्।

काव्यवर्ग-संयोजकौ
❋ श्रीमनोजकुमारः (प्रान्तपत्राचारप्रमुखः)
❋ श्रीसत्यदेवः (प्रान्तसहपत्राचारप्रमुखः)

उद्घाटनकार्यक्रमः
❋ वर्गभूमिका –डा.मुकेशमहोदयः (प्रान्तशिक्षणप्रमुखः)
❋ अधिकारिपरिचयः –डा.मुकेशमहोदयः (प्रान्तशिक्षणप्रमुखः)
❋ शिक्षकपरिचयः - डा.मनोजकुमारमहोदयः (प्रान्तपत्राचारप्रमुखः)
❋ सञ्चालकः –श्रीसत्यदेवः

उद्घाटने उपस्थिताः अधिकारिणः
❋ श्रीमान् सञ्जीवपाठकमहोदयः (प्रान्तमन्त्री)
❋ श्रीमान् डा.ज्ञानेश्वरशर्ममहोदयः (प्रान्तसहमन्त्री)
❋ श्रीमान् नरेन्द्रकुमारमहोदयः (प्रान्तसंघटनमन्त्री)
❋ श्रीमान् डा.मुकेशकुमारमहोदयः (प्रान्तशिक्षणप्रमुखः)

वर्गशिक्षकः
❋ डा.सुज्ञानकुमारमाहान्तिमहोदयः(साहित्यविभागाध्यक्षः)
[केन्द्रीयसंस्कृतविश्वविद्यालयः वेदव्यासपरिसरः काङ्गडा बलाहरः (हि.प्र.)]

काव्यवर्गस्य उद्देश्यानि
 सरलसंस्कृतेन काव्यशास्त्रस्य शिक्षणम्
 काव्यशास्त्रस्य आधारभूत-तत्त्वानां परिचायनम्
 कार्यकर्तॄणां गुणवत्तास्तरवर्धनम्
 भारतीयशास्त्रानुसारं काव्यप्रयोजनप्रतिपादनम्
 पाश्चात्यशास्त्रानुसारं काव्यप्रयोजनप्रतिपादनम्
 भारतीयकाव्यशास्त्ररीत्या काव्यहेतुविवेचनम्
 पाश्चात्यकाव्यशास्त्रपद्धत्या काव्यकारणविमर्शनम्
 मम्मटोक्तकाव्यलक्षणस्य विशिष्य उपस्थापनम्
 अभिधा-लक्षणा-व्यञ्जनाप्रभृतानां शब्दशक्तीनां प्रतिपादनम्
 कार्यकर्तॄषु शास्त्राध्ययनाय अभिरुचेः उत्पादनम्

प्रक्रिया
 पीपीटिमाध्यमेन सरलसंस्कृतेन प्रत्यक्षविधिनाकाव्यशिक्षणम्
 काव्यशास्त्रस्य मौलिकतत्त्वानां परिचयः
 कार्यकर्तॄणां कृते जीवने काव्यशास्त्रस्य उपादयेताशिक्षणम्
 भारतीयशास्त्रानुसारंभरत-भामह-वामन-रूद्रट-आनन्दवर्धन-अभिनवगुप्त-कुन्तक-मम्मट-विश्वनाथ-पण्डितराजजगन्नाथादीनां मतेन काव्यप्रयोजनस्य प्रतिपादनम्
 पाश्चात्यशास्त्रानुसारं प्लेटो-अरस्तु-क्विण्टीलियन-ड्रइडन-होरेस-ब्युरी-सीडनी-वर्डसवर्थ-रस्किन-टल्स्ट्य-कान्त-पीटर-विक्टरकूजन-आस्कर्वाइल्ड-दान्ते-शैली-लेनिन-मेथ्यु-आर्नण्ड-क्रोचे-ब्रेडली-रिचर्डस-कोलरिजप्रभृतानाम् आचार्याणां मतेत काव्यप्रयोजनस्य प्रतिपादनम्
 भारतीयकाव्यशास्त्ररीत्याभामह-दण्डी-रूद्रट-राजशेखर-वाग्भट-जयदेव-मम्मट-जगन्नाथादीनां मतेन काव्यहेतूनां विवेचनम्
 पाश्चात्यकाव्यशास्त्रपद्धत्या सक्रेटिस-प्लेटो-क्विण्टिलियन-लौञ्जाइनस-होरेस-सरफिलिप-सिडनी-बोदेलाइर-इलियट-पाउण्ड-रिचर्ड-कालरिज-क्रोचेप्रभृताचार्याणां मतेन काव्यकारणविमर्शनम्
 मम्मटोक्तकाव्यलक्षणस्यमम्मट-कुन्तक-जगन्नाथ-विश्वनाथ-भामह-दण्डी-वामन-आनन्दवर्धन-सुज्ञानकुमारमाहान्तिविदुषां च संस्तुतिम् उद्दिश्य विशिष्य उपस्थापनम्
 महाभाष्य-मुकुलभट्ट-मम्मट-विश्वनाथ-अप्पयदीक्षित-जगन्नाथ-महिम-वैयाकरण-मीमांसक-नैयायिक-बौद्ध-मुकुलादीनां च आचार्याणां मतेन अभिधा-लक्षणा-व्यञ्जनाप्रभृतानां शब्दशक्तीनां प्रतिपादनम्
 विविधदृष्ट्या काव्यशास्त्रविषयाणाम् उपस्थापनं कृत्वा कार्यकर्तॄणां दृष्टेः विकासकरणम्

सम्पूर्तिकार्यक्रमः
❋ वर्गसारांशः अतिथिपरिचयः च –सत्यदेवः (प्रान्तसहपत्राचारप्रमुखः)
❋ धन्यवादज्ञापनम् - श्रीकमलकान्तमहोदयः (शिमलाविभागसंयोजकः)
❋ सञ्चालकः –श्रीसत्यदेवः

सम्पूर्तिकार्यक्रमे उपस्थिताः अधिकारिणः
❋ श्रीमान् प्रो.लक्ष्मीनिवासपाण्डेयमहोदयः (प्रान्ताध्यक्षः)
❋ श्रीमान् सञ्जीवपाठकमहोदयः (प्रान्तमन्त्री)
❋ श्रीमान् डा.ज्ञानेश्वरशर्ममहोदयः (प्रान्तसहमन्त्री)
❋ श्रीमान् डा.मुकेशकुमारमहोदयः (प्रान्तशिक्षणप्रमुखः)

भाविनि काले
 संस्कृतमयवातावरणस्य अनिवार्यतायाः आनयनम्
 इदानीन्तनस्य शिक्षणस्य आधारेण अग्रिमस्तर-प्रशिक्षणस्य आयोजनम्
 काव्यवर्गस्य अङ्गत्वेन एव छन्द-अलङ्कारादीनां शिक्षणाय वर्गायोजनम्
 काव्यवर्गवत् अन्यशास्त्राणां शिक्षणस्य आयोजनम्
 प्रवर्तमान-शिक्षण-प्रक्रियायाः उत्तमानाम् अंशानाम् अनुकरणम्
 अनुकृतैः विषयैः सह आधुनिककाले अपेक्षितानां शिक्षणांशानां संयोजनम्
 शास्त्रशिक्षणे प्राविधिकप्रयोगाणाम् आनयनम्





प्रतिभागिविवरणम्

दिनाङ्कः संख्यात्मकविवरणम्
२२/०५/२०२० ५८
२३/०५/२०२० ४८प्रायेण
२४/०५/२०२० ४४
२५/०५/२०२० ३३
२६/०५/२०२० २३
२७/०५/२०२० ३०
२८/०५/२०२० २८







दिनाङ्कः – २९/०५/२०२०
स्थानम् - प्रागपुरम्

प्रतिवेदकः
सत्यदेवः
(काव्यवर्गसञ्चालकः).


  • Post By : Himachal Pradesh
  • |
  • 02-06-2020
  • |