27-04-2024 दिनांके हरिद्वारे श्रीचेतनज्योति-आश्रमे प्रान्तसमीक्षायोजना-गोष्ठ्याः शुभारम्भ: ||
27-04-2024 दिनांके हरिद्वारे श्रीचेतनज्योति-आश्रमे प्रान्तसमीक्षायोजना-गोष्ठ्याः शुभारम्भ: अभवम्।
गोष्ठ्याः आरम्भ: सरस्वती-मातु: पुरत: दीपप्रज्ज्वलनेन तथा हरिद्वार-जनपदाध्यक्षः डॉ. अरुण मिश्र महोदयेन वेदध्वनिना कृत:।
मुख्यातिथि-रूपेण अखिलभारतीय-सहसंघटनमन्त्री श्रीजयप्रकाश गौतम महोदयस्य सानिध्यं प्राप्तम्।विशिष्टातिथिरूपेण श्रीचेतनज्योति-आश्रमस्य परमाध्यक्षा: महन्त-ऋषेश्वरानन्द महाराजा: उपस्थिता: । महोदयेन उक्तम् यत् अस्माभि: अस्माकं संस्कृते: संस्कृतस्य च रक्षणं कर्तव्यम्। कार्यक्रमस्य अध्यक्षत्वेन प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी महोदया उपस्थिता आसीत्।
प्रांतमन्त्री श्रीगिरीश तिवारी महोदयेन सर्वेषाम् अतिथिनां परिचय: कारित: ।
वन्दे संस्कृतमातरम्।.
- Post By : Uttarakhand
- |
- 27-04-2024
- |





























