Latest Media & News
Preview Media & News

प्रान्तगोष्ठी 2024 फरवरी
संस्कृतभारतीहिमाचलप्रदेशद्वारा फरवरीमासस्य 24-25 दिनाङ्कयोः शिमलाविभागस्य अर्कीजनपदे श्रीलुटरुमहादेवमन्दिरे प्रान्तसमीक्षायोजनागोष्ठी समायोजिता । अस्यां गोष्ठ्यां 55 कार्यकर्तारः उपस्थिताः आसन् । संस्कृतभारतीहिमाचलप्रान्तस्य 07 विभागेभ्यः 24 जनपदेभ्यः च समुपस्थिताः कार्यकर्तारः 2023-24 कार्यवर्षस्य निर्धारितानां कार्याणां समीक्षणं कृतवन्तः । अपि च 2024-25 कार्यवर्षस्य कार्ययोजनां च निश्चितवन्तः । गोष्ठ्याम् अस्याम् अखिलभारतसहसंघटनमन्त्री श्रीमान् जयप्रकाशगौतमः क्षेत्रीयसंघटनमन्त्री श्रीमान् नरेन्द्रकुमारः च उपस्थितः आसीत् ।.
- Post By : Himachal Pradesh
- |
- 28-02-2024
- |