
प्रान्तसमीक्षायोजनागोष्ठी
संस्कृतभारतीहिमाचलप्रदेशद्वारा मेमासस्य प्रथमद्वितीयदिनाङ्कयोः केन्द्रीयसंस्कृतविश्वविद्यालयस्य वेदव्यासपरिसरे काङ्गडायां प्रान्तसमीक्षायोजनागोष्ठी आयोजिता । उद्घाटनावसरे मुख्यातिथिरूपेण वेदव्यासपरिसरस्य वेदान्तविभागाध्यक्षः डा.मञ्जुनाथभट्टमहोदयः अध्यक्षत्वेन उत्तरक्षेत्रस्य क्षेत्रमन्त्री श्रीमान् आचार्यलक्ष्मीनिवासपाण्डेयः च उपस्थितौ आस्ताम् । अस्यां गोष्ठ्यां प्रान्तस्य प्रायेण उपसप्ततिकार्यकर्तारः (४८ पुरुषाः १२ महिलाः) उपस्थिताः अभूवन् । प्रथमदिनगोष्ठ्यां प्रथमसत्रत्रये 2021-22 कार्यवर्षस्य कार्यविभागसमीक्षा कार्यायामाणां समीक्षा कार्यक्रमसमीक्षा च कृता । चतुर्थे सत्रे क्षेत्रीयसङ्घटनमन्त्रिणः श्रीनरेन्द्रमहोदयस्य बौद्धिकं च अभूत् । पञ्चमे सत्रे 2022-23 कार्यवर्षस्य कार्ययोजनादृशा उपवेशनं विहितम् । गोष्ठ्याः द्वितीये दिने आहत्य त्रीणि सत्राणि यत्र प्रथमे द्वितीये च कार्यविभागप्रमुखैः आयामप्रमुखैः भावियोजनाः प्रस्तुताः तृतीयं सत्रं समापनसत्ररूपेण आसीत् । समापनावसरे क्षेत्रीयमन्त्रिणः श्रीमतः प्रो.लक्ष्मीनिवासपाण्डेयमहोदयस्य प्रान्ताध्यक्षमहोदयस्य श्रीमतः डा.राजेशमहोदयस्य च उद्बोधनम् अभूत् ।.
- Post By : Himachal Pradesh
- |
- 08-05-2022
- |