श्रीकल्याणिकावेद-वेदाङ्ग-संस्कृतविद्यापीठम् डोल-आश्रमः अल्मोड़ा" इत्यस्मिन् स्थाने दशदि
श्रीकल्याणिकावेद-वेदाङ्ग-संस्कृतविद्यापीठम् डोल-आश्रमः अल्मोड़ा" इत्यस्मिन् स्थाने दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरस्य सम्पूर्तिकार्यक्रमः 23-07-2023 दिनाङ्के अभवत्।
कार्यक्रमस्य सञ्चालनं शिबिरशिक्षकः श्रीसंजयभट्टमहोदयेन कृतम् । अस्मिन् कार्यक्रमे मुख्यवक्ता- संस्कृतभारत्याः प्रांतसंघटनमन्त्री श्रीमान् गौरवशास्त्रीमहोदयः आसीत् तथा मुख्यातिथिः- राष्ट्रीय-स्वयं-सेवकसंघस्य विभागप्रचारकः श्रीमान् इन्द्रमोहनमहोदय एवं विशिष्टातिथिः- खण्ड-शिक्षा-अधिकारी सुश्री प्रेमा बिष्ट-महोदया तथा कार्यक्रमाध्यक्षाः आश्रमस्य प्रबंधकाः कपिलेश्वरानन्दस्वामी वर्या आसन् तथा प्रास्ताविकं भाषणं संस्कृतभारत्याः प्रान्तप्रचारप्रमुखः श्रीजगदीशचन्द्र जोशीमहोदयेन कृतम्।
विद्यालयस्य छात्रा संस्कृतसम्भाषणशिबिरस्य स्वानुभवम् अपि प्रस्तुतवन्त ।
अन्येषु अल्मोडाजनपद-अध्यक्षः श्री निर्मलपन्तमहोदयः हल्द्वानीमहानगरसंयोजकः श्रीकैलाशचन्द्रसन्वालमहोदयः भा.ज.पा. जिलामन्त्री श्रीमान् सञ्जयडालाकोटी महोदय पूर्वमण्डल-उपाध्यक्षः श्रीमान् दिनेश जी एवं अस्यैव विद्यालयस्य अध्यापकाः अध्यापिका सर्वेपि छात्राश्च उपस्थिता आसन् तथा अन्ते श्रीकल्याणिकावेद-वेदाङ्ग- संस्कृतविद्यापीठस्य प्रधानाचार्याः विवेकानन्दस्वामीमहोदयाः धन्यवादज्ञापनेन शान्तिमन्त्रेण च कार्यक्रमस्य समापनं कृतवन्त ।
वन्दे संस्कृतमातरम्।.
- Post By : Uttarakhand
- |
- 26-07-2023
- |





























