Top
Samskrita Bharati - North Karnataka
संस्कृतभारती - उत्तरकर्णाटक
Latest Media & News
Preview Media & News

कर्णाटक-उत्तरप्रान्तस्य समीक्षायोजनागोष्ठी -२०२६
अस्य वर्षस्य कर्णाटक-उत्तरप्रान्तस्य समीक्षायोजनागोष्ठी फेब्रवरी २८, मार्च १, २०२६ दिनाङ्कयोः बागलकोटे नगरस्य चरन्तिमठ कल्याण मण्डपे सम्पन्ना जाता ।
गोष्ठयां गतवर्षस्य कार्याणां अवलोकनं तथा च अग्रे करणीयानां कार्याणां योजना च कृता ।
नूतनानि उत्तरवायित्वानि घोषितानि ।
उद्घाटनावसरे कन्नडभाषायाः प्रसिद्धा लेखिका श्रीमती वीणा बन्नञ्जे उपस्थिता आसीत् ।
गोष्ठ्यां अखिलभारतीयसङ्घटनमन्त्री श्री जयप्रकाशगौतमः महोदयः, क्षेत्रीयसङ्घटनमन्त्री श्री नागराजः महोदयः, प्रान्ताध्यक्षः प्रो. जी. आर्. अम्बली महोदयः, उपाध्यक्षः श्री रामसिङ्ग राजपूत महोदयः, उपाध्यक्षा श्रीमती शारदा कुल्कर्णी भगिनी, प्रान्तमन्त्री श्री श्रीकान्त कुलकर्णी महोदयः उपस्थिताः आसन् ।
आहत्य प्रान्ततः 60 कार्यकर्तारः गोष्ठयां भागं गृहीतवन्तः ।.


  • Post By : North Karnataka
  • |
  • 02-03-2026
  • |