Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

प्रान्तगोष्ठी 2023 दिसम्बर
संस्कृतभारतीहिमाचलप्रदेशद्वारा 09-10 दिसम्बर् 2023 शनिरविवासरयोः सनातनधर्मसभा-पुरानाबाज़ार-सुन्दरनगरे द्विदिवसीया प्रान्तगोष्ठी आयोजिता । यस्याम् अखिलभारतीयसहसंघटनमन्त्री श्रीमान् जयप्रकाशमहोदयः, क्षेत्रीयसंघटनमन्त्री श्रीमान् नरेन्द्रकुमारमहोदयः, क्षेत्रीयमन्त्री श्रीमान् यशवीरमहोदयः, क्षेत्रसम्पर्कप्रमुखः श्रीमान् जोगिन्द्रमहोदयः च उपस्थितः आसीत् । हिमाचलप्रान्तस्य कार्यकारिणी, विविधजनपदेभ्यः खण्डस्तरीयाः विविधाः 65 दायित्ववन्तः कार्यकर्तारः उपस्थिताः आसन् । अस्यां द्विदिवसीयगोष्ठ्यां प्रान्तस्य कार्यविस्तारदृष्ट्या योजना कार्यवर्षे सम्पादितानां कार्याणां च समीक्षणं कृतम् ।.


  • Post By : Himachal Pradesh
  • |
  • 28-02-2024
  • |