Top
Samskrita Bharati - Gujrat
संस्कृतभारती - गुजरात
Latest Media & News
Preview Media & News

गुजरातविश्वविद्यालये सम्भाषणशिबिरम्
गुजरातविश्वविद्यालये संस्कृतभारत्याः सहयोगेन जुलाईमासस्य 21 दिनाङ्कतः 30 दिनाङ्कपर्यन्तं संभाषणशिबिरस्य आयोजनं अभवत् । गुजरातविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः प्रो. कमलेशचोक्सी महोदयः शिबिरस्य उद्घाटनकार्यक्रमे भागं गृहीत्वा शुभाशंसनं कृतवान् । समारोपकार्यक्रमे डा.किरणसिंह राजपुतमहोदयः मुख्यातिथिः आसीत् । कार्यक्रमे मुख्यभाषणं प्रो.कमलेशचोक्सी महोदयः कृतवान् । कृतज्ञताज्ञापनं डॉ. हेतल पंडया कृतवती । अस्मिन् शिबिरे पञ्चत्रिशंत् शिक्षार्थिनः भागं गृहितवन्तः । अस्मिन् शिबिरे शोधछात्राः विविधक्षेत्रेषु कार्यं कुर्वन्तः सामाजिकाः एवं प्राध्यापकाः भागं गृहीतवन्तः । श्री धीरेन्द्रः मिश्रा एतस्य शिबिरस्य शिक्षकः आसीत् ।.


  • Post By : Gujrat
  • |
  • 22-10-2018
  • |