12 तः 19 मार्च पर्यन्तं हल्द्वान्यां संस्कृत - सम्भाषणशिविरम्
हलद्वान्यां एम बी राजकीयस्नातकोत्तरमहाविद्यालये संस्कृतभारती-उत्तराञ्चल द्वारा सप्तदिवसीय- सरलसंस्कृतसम्भाषणशिविरस्य उद्घाटनं जातम्।कार्यक्रमस्य आरम्भ मातु सुरभारत्याः सरस्वत्याः पुरत दीपप्रज्वालनेन स्वागतगीतेन च अभवत्।कार्यक्रमेस्मिन् मुख्यातिथिरूपेण महाविद्यालयस्य प्राचार्या विशिष्टातिथिरूपेण संस्कृतभारती-उत्तराञ्चलस्य प्रान्ताध्यक्षा श्रीमती जानकीत्रिपाठी-महोदया तथा च नैनीतालविभागस्य विभागसंयोजकाः डॉ० चन्द्रप्रकाश उप्रेती-महोदयाःआसन् । शिविरसंयोजकरूपेण संस्कृतविभागाध्यक्षा डॉ० विनयविद्यालङ्कार- महोदया शिविरशिक्षक जगदीशचन्द्र जोशी संस्कृतभारत्यां विस्तारक किञ्च महाविद्यालयस्य विविधविभागानां गणमान्याः विभागप्रमुखाः अध्यापकाश्च आसन्। कार्यक्रमे शिक्षाशास्त्र- योगादिविभागानां शताधिका छात्राः बहवः विद्यावारिधिछात्राश्च उपस्थिताः आसन्।कार्यक्रमस्य मुख्यातिथिना श्रीमता डा. जी. एस. बिष्ट - महाभागेन उक्तं यत् संस्कृतं विश्वस्य न केवलं प्राचीनतमा भाषा अस्ति अपितु पूर्णवैज्ञानिकी भाषा च वर्तते। शिविरसंयोजकेन श्रीमता डा. विनयविद्यालंकारेण कथितं यत् उत्तराखण्डराज्यमेव सर्वप्रथमं संस्कृतं राजभाषत्वेन घोषितवत्। संस्कृतभारत्याः प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी अवदत् यत् संस्कृतं सरलं मधुरं च वर्तते। शिशुः यथा सहजभावेन स्वमातृभाषां जानाति तथैव संस्कृतसंभाषणशिविलरमाध्यमेन जनाः सहजतया संस्कृतं ज्ञातुं शक्नुवन्ति।.
- Post By : Uttarakhand
- |
- 13-03-2019
- |





























