Top
Samskrita Bharati - Delhi
संस्कृतभारती - देहली
Latest Media & News
Preview Media & News

शिबिरचालकप्रशिक्षणवर्गस्य भाषाबोधनवर्गस्य च कानिचित् चित्राणि
शिबिरेsस्मिन् शिक्षकगणप्रमुखौ श्रीआशुतोषगवीशौ स्तः।शिबिरे मार्गदर्शकः प्रान्तसहमन्त्री डा.परमेशमहोदयः मुख्यप्रबन्धकत्वेन दायित्वं निर्वहति।वर्गपालकःश्रीविनायकहेगडेसम्भाषणशिबिरचालकाः धनंजयःदीपकःपंकजःरीशू आदयः सन्ति।शिविरेस्मिन् प्रातःआरभ्य सायं यावत् संस्कृतमयं वातावरणं दृष्टवा मनः आह्लादितो भवति।अपरस्मिन् पक्षे सामाजिकशिबिरस्य आयोजनमपि प्रतिदिनं होराद्वयं भवति।यत्र प्रतिदिनं 25 सामाजिकाः सरलशिक्षणमाध्यमेन संस्कृतसम्भाषणस्य अधिगमं कुर्वन्ति तेषु 17 बालकाः 08 वरिष्ठाः युवकाः वृद्धाश्च सन्ति।इमे प्रतिदिनं संस्कृतं पठितुमागच्छन्ति।सर्वे अतीव सोत्साहेन क्रीडामाध्यमेन च संस्कृतसम्भाषणं कुर्वन्तः सन्ति। सामाजिकशिबिरे श्रीपंकजः संस्कृतसम्भाषणं पाठयति।वर्गे एव एकस्मिन् स्थाने संस्कृतप्रदर्शनी अपि स्थापिता अस्ति।.


  • Post By : Delhi
  • |
  • 21-10-2018
  • |