
गीतापारायणम् -2
श्रीमद्भगवद्गीता भारतीयसंस्कृतौ महन्महत्त्वम् आवहति । सर्वासाम् उपनिषदां सारः गीतायां वर्णितः अस्ति । गीतायाः भाषा संस्कृतम् । सरलसंस्कृतेन गीतायाः रचना अभवत् अतः सर्वे अपि जनाः गीतायाः सामान्येन अभ्यासेन गीताश्लोकानाम् उच्चारणं कर्तुं शक्नुवन्ति । अतः जनानां संस्कृतं प्रति गीतां च प्रति अभिरुचेः वर्धनार्थं संस्कृतभारती विविधान् प्रयासान् कुर्वती अस्ति । तेषु प्रयासेषु अस्ति अन्यतमः प्रयासः गीतापारायणकेन्द्रं नाम । शनिवासरे 11/11/2023 दिनाङ्के पुरीनगरे गीतापारायणकेन्द्रे द्वितीयस्य अध्यायस्य पारायणं तथा च चर्चा अभवत् । अस्मिन् कार्यक्रमे 28 जनाः उपस्थिताः आसन् । प्रति शनिवासरं सायम् 05:30 तः 06:30 पर्यन्तं गीतापारायणं प्रचलति। प्रति सप्ताहम् एकस्य अध्यायस्य सामूहिकं पारायणम्, अर्थचर्चा च भवति । कार्यक्रमस्य सञ्चालकः श्री रमाकान्तः (प्रान्तसहमन्त्री) अस्ति ।.
- Post By : Utkal
- |
- 14-11-2023
- |