Top
Samskrita Bharati - Vidarbha
संस्कृतभारती - विदर्भ:
Latest Media & News
Preview Media & News

संस्कृतभारतीविदर्भप्रान्तस्य कार्यकर्तृणां‍‍‌ सम्मेलनम् अकोलानगरे सम्पन्नम् ।
संस्कृतभारतीविदर्भप्रान्तस्य कार्यकर्तृणां‍‍‌ सम्मेलनम् २३-२४ एप्रिल २०२२ इति दिनाङ्कयो अकोलानगरे मोहरीदेवीखण्डेलवालकन्याविद्यालये सम्पन्नम् । वर्षाभ्याम् अनन्तरं प्रत्यक्षरीत्या आयोजितस्य कार्यकर्तृसम्मेलनस्य उद्घाटनावसरे महर्षिपाणिनि-संस्कृत-वैदिक- विश्वविद्यालयस्य कुलपति आचार्य विजयकुमारमेनन् महोदय संस्कृतभारत्या अखिलभारतीयमन्त्री डॉ. सत्यनारायणभट्टवर्य विदर्भप्रान्तमन्त्री श्रीमान् रमेशमन्त्रिमहोदय स्वागतसमिते अध्यक्ष डॉ. आर. बी. हेडा विदर्भप्रान्तमन्त्री डॉ. भरतकुमारपण्डा चेति मान्यवरा उपस्थिता आसन् । सम्मेलने विदर्भप्रान्तस्य अष्टभ्य जनपदेभ्य ८२ दायित्ववन्त कार्यकर्तार उपस्थिता आसन् ।
दिनद्वयस्य उपवेशने गतवर्षस्य कार्यस्य समीक्षापूर्वकम् आगामिवर्षस्य योजनाविषये सविस्तरं चर्चा कृता । तत्र संस्कृत-विज्ञानप्रदर्शिनी वस्तुप्रदर्शिनी तथा पुस्तकप्रदर्शिनी स्थानिकानां कृते स्थापिता आसीत् । शताधिकै नागरिकै प्रदर्शिनी दृष्टा । सम्मेलनस्य समारोपे डॉ. पंजाबरावदेशमुख - कृषि - विद्यपीठम् अकोला इत्यस्य कुलगुरु डॉ. विलासभालेवर्य विषेशातिथित्वेन उपस्थित आसीत् ।
अखिलभारतीयमन्त्री डॉ. सत्यनारायणभट्टवर्य सर्वेभ्य उपस्थितेभ्य कार्यकर्तृभ्य मार्गदर्शनं कृतवान् । कर्तुं श्रीमान् धनञ्जयदेशपाण्डे श्रीमती जयश्रीदेशमुख श्रीमान् प्रदीपचौखण्डे इत्यादिभि कार्यकर्तृभि सम्मेलनस्य सुयोग्यम् आयोजनं कृतम् ।.


  • Post By : Vidarbha
  • |
  • 26-04-2022
  • |