Top
Samskrita Bharati - South Tamilnadu
संस्कृतभारती - दक्षिणतमिलनाडु
Latest Media & News
Preview Media & News

कोयम्बत्तूर्-जनपदे भाषाबोधनवर्गः
अस्य डिसम्बर्मासस्य 23 (रविवासरः) दिनाङ्कतः 26 (बुधवासरः) दिनाङ्कपर्यन्तं कोयम्बत्तूर्जनपदे सिङ्गानल्लूर्-प्रदेशे श्री जयेन्द्र-सरस्वती-विद्यालये चतुर्दिनात्मक-आवासीय-भाषाबोधनवर्गः भविष्यति। ये पूर्वं सरलरीत्य संस्कृतसम्भाषणं कर्तुं शक्नुवन्ति ते सर्वे अपि अस्मिन् वर्गे भागं स्वीकर्तुं शक्नुवन्ति। ये पत्राचारवर्गस्य प्रवेश-परिचय-शिक्षा-कोविदवर्गे पठन्ति अथवा पठितवन्तः ते सर्वे अपि भागं स्वीकर्तुं शक्नुवन्ति। संस्कृतभारत्याः दशदिन सम्भाषणशिबिरप्रविष्टारः अपि अस्मिन् वर्गे भागं स्वीकर्तुं शक्नुवन्ति। अस्य पञ्जीकरणशुल्कं भवति 300/- रूप्यकाणि। सम्पर्क सङ्ख्या - 94437 22006..


  • Post By : South Tamilnadu
  • |
  • 10-12-2018
  • |