Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

03-03-2024 दिनांके द-न्यू-स्कॉलर्स-एकेडमी विद्यालये सम्भाषणशिबिरस्य उद्घाटनम् अभवत्।
03-03-2024 दिनांके रविवासरे लालकुआं-नगरान्तर्गत बिन्दुखत्ता-इन्द्रानगर 2 ग्रामे द-न्यू-स्कॉलर्स-एकेडमी विद्यालये दशदिवसीय-सरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत्।
शिबिरोsयं अस्मिन् क्षेत्रे ग्रामीण-परिवेशे च प्रथमवारं सञ्जायते।
उद्घाटनकार्यक्रमस्य आरम्भ: सरस्वती-मातु: पुरत: दीपप्रज्ज्वलनेन जात: ।ध्येयमन्त्र: प्रान्तप्रचारप्रमुखेन श्रीजगदीशचन्द्र जोशी महोदयेन कृत: ।प्रास्ताविक-उद्बोधनं प्रान्तसहमन्त्री डॉ. चन्द्रप्रकाश उप्रेती महोदयेन कृतम् ।महोदयेन संस्कृतभारतीति संघटनविषये तथा तस्य कार्याणां विषये सर्वेsपि बोधिता: ।विद्यालयस्य प्रधानाचार्या श्रीमती शशि जोशी महोदया संस्कृतभारत्या: धन्यवादं प्रकटितवती तथा सर्वेभ्यः शिबिरे मनोयोगेन पठनाय प्रेरितवती।अन्ते च नैनीताल-जनपदसंयोजक: डॉ. नीरज जोशी महोदय: सर्वेषां धन्यवादज्ञापनं कृतवान्।
कार्यक्रमस्य सफलसञ्चालनं नैनीताल-जनपदसम्पर्कप्रमुख: डॉ. हेमन्त जोशी महोदयेन कृतम्।
कार्यक्रमेsस्मिन् विद्यालयस्य प्रबन्धक-महोदय: श्रीमुकेश जोशी महोदय: ,हल्द्वानी-महानगरसंयोजक: श्रीकैलाशचन्द्र सनवाल महोदय: विद्यालयस्य शिक्षक-शिक्षिका: छात्रछात्राश्च उपस्थिता: आसन्।
अस्य शिबिरस्य शिक्षक: प्रान्तप्रचारप्रमुख: श्रीजगदीशचन्द्र जोशी तथा सहायकशिक्षिका लालकुआं-नगरसंयोजिका श्रीमती हिमानी जोशी स्त: ।
वन्दे संस्कृतमातरम्।.


  • Post By : Uttarakhand
  • |
  • 04-03-2024
  • |