08-01-2024 दिनांकेआवासीयप्रबोधनवर्गस्य सम्पूर्तिकार्यक्रमः राममन्दिरधर्मशाला हल्द्वान्याम्|
08-01-2024 दिनांके संस्कृतभारती-उत्तराञ्चलम् कुमाऊँ-संभागद्वारा-आयोजित-आवासीयप्रबोधनवर्गस्य सम्पूर्तिकार्यक्रमः राममन्दिरधर्मशालारेलवेबाजारहल्द्वान्यां सञ्जात:। अयमावासीयप्रबोधनवर्ग: ०१ जनवरी २०२४ त: ०९ जनवरी २०२४ यावत् प्राचलत्। यस्मिन् मुख्यातिथि: डॉ. जोगेन्द्रसिंहखुराना, निदेशक: कृष्णशोधकेन्द्रम्, विशिष्टातिथि: श्रीप्रदीपबिष्ट: पूर्वजिल्लाध्यक्ष: भाजपा हल्द्वानी तथा सरस्वतातिथि: श्रीदिनेशलोशाली महोदय: आसीत्। कार्यक्रमे आध्यक्षपदं प्रदेशाध्यक्षा श्रीमतीजानकीत्रिपाठी ऊढवति। वर्गाधिकारी श्रीकैलाशपन्तमहोदय: तथा प्रशासनप्रमुख: श्रीप्रकाशभट्टमहोदय: अपि भागम् ऊढवन्तौ। मुख्यातिथि डॉ. जोगेन्द्रसिंहखुराना महोदय: अकथयत् संस्कृतिप्रवर्धनार्थं संस्कृतभारतीद्वारा कृतमेतत् कार्यम् अतीव प्रशंसनीयम्। सः स्वस्य कृष्णा-शोधकेन्द्रेsपि संस्कृतसंभाषणशिबिराणां आयोजनविषयकमाश्वासनं दत्तवान् । विशिष्टातिथिः प्रदीपबिष्टमहोदयः अवदत् यत् भारतस्य प्रतिष्ठा संस्कृते एव वर्तते। यस्मात् भारतस्य कीर्तिः भवति तत् संस्कृतं संस्कृतिश्च। अस्माभिः संस्कृतम् अग्रे नेतव्यं तथा च संस्कृतभारत्याः अयं विश्वव्यापी कार्यक्रमः यथार्थतया प्रशंसनीयः अस्ति। सारस्वतातिथिः दिनेश-लोशाली-महोदयः अपि संस्कृतभारती-सहकारेण हल्द्वानी-अनलाईन-संस्थायाः माध्यमेन वार्तालाप-शिबिरस्य आयोजनस्य आश्वासनं प्रादात्।
श्रीमती जानकीत्रिपाठी सर्वेभ्यः कृतज्ञतां प्रकटितवति। तथा संस्कृतस्य प्रचारार्थं संस्कृतभारत्या क्रियमाणानां विविधानां कार्याणां विषये सूचनां दत्तवति। कार्यक्रमस्य संचालनं डॉ. जगदीशचन्द्रपाण्डेय इत्यनेन कृतम् ।प्रान्तीयशिक्षाप्रमुखः डॉ राघवझा संस्कृतभारत्याः कृतकार्यस्य विषये विस्तृतां सूचनां दत्तवान् । कार्यक्रमे कक्षाशिक्षणप्रमुख: श्रीमान् दीपचन्द्रजोशी महोदय: कक्षावृत्तं प्रस्तुतवान्। अतिथिनां परिचयः कक्षायाः मुख्याध्यापकेन श्रीमताजगदीशचन्द्रजोशीमहोदयेन कृतः। कक्षायां आहत्य ४३ शिक्षार्थिन: प्रशिक्षणं गृहीतवन्तः । कार्यक्रमे प्रांतीयसहमंत्री डॉ.चंद्र प्रकाशउप्रेती,मोहित जोशी, ज्योतिप्रकाश:, अंकित पाण्डेय, प्रकाश चंद्र जांगी, डॉ. कमल चंद्र बेलवाल:, डॉ.अभिषेक परगाँई डॉ. हेमंत जोशी, डॉ. नीरज जोशी, संजय भट्ट, कुमारी उमा सैनी, जतिन जोशी, अब्दुल कवि, निशांत, निष्कर्ष, नाजिया इत्यादय: प्रशिक्षणार्थिन:, प्रशिक्षकाश्च उपस्थिता: आसन्।
वन्दे संस्कृतमातरम्।।.
- Post By : Uttarakhand
- |
- 09-01-2024
- |





























