बालकेन्द्र-चालक-प्रशिक्षणवर्गः
चेन्नै-नगरस्य तिरुवोट्टियूर्स्थे श्रीशङ्करविद्याकेन्द्रनामके विद्यालये बालकेन्द्रचालकानां कृते दिनद्वयात्मकः आवासीयः प्रशिक्षणवर्गः अक्टोबर्-मासस्य 01-02-दिनाङ्कयोः प्राचलत्। अस्मिन् प्रशिक्षणवर्गे 60 जनाः भागं गृहीतवन्तः। प्रशिक्षणे अस्मिन् अखिलभारतबालकेन्द्रप्रमुखः श्रीमान् उपद्रष्टृरमणमूर्तिमहोदयः अपि आगत्य मार्गदर्शनं कृतवान्। उद्घाटनसत्रे रमणमूर्तिमहोदयः, प्रान्तमन्त्रिणी श्रीमती अमितामाता, शङ्करविद्याकेन्द्रस्य श्रेयाभिलाषी श्रीमान् कृष्णमूर्ति-महोदयः च मञ्चासीनाः आसन्। दक्षिणक्षेत्रस्य क्षेत्रसङ्घटनमन्त्री श्रीमान् सुवीशमहोदयः अपि अस्मिन् प्रशिक्षणे आसीत्। समारोपकार्यक्रमे क्षेत्रमन्त्री श्रीमान् हरीन्द्रमहोदयः, प्रान्तसहमन्त्री श्रीमान् श्रीराममहोदयः अपि उपस्थितौ आस्ताम्। प्रशिक्षिताः एते कार्यकर्तारः अग्रे स्वकार्यस्थलं गत्वा बालकेन्द्रं चालयिष्यन्ति।.
- Post By : North Tamilnadu
- |
- 02-10-2023
- |











