संस्कृतभारती उत्तराञ्चलम् विद्वत्परिषद् द्वारा शास्त्रप्रबोधनवर्गस्य उद्घाटनमभवत् |
अतीव हर्षस्य विषयोsयं यत् विक्रम-सम्वत् 2080 वैशाखशुक्लपक्षे अक्षयतृतीयायां शुभतिथौ 23-04-23 रविवासरे सायंकाले संस्कृतभारती उत्तराञ्चलम् विद्वत्परिषद् द्वारा समायोजितस्य शास्त्रप्रबोधनवर्गस्य औपचारिकम् उद्घाटनं स्वाध्यायकेन्द्रम् - आनन्दनिलयम् इत्याख्ये सदने लक्कीविहारक्षेत्रे हरिद्वारे अभवत् ।
तत्र संस्कृतभारती उत्तराञ्चल प्रान्तस्य विद्वत्परिषद् संयोजक उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतय प्रो०दिनेशचन्द्र शास्त्री महोदय तथा च विद्वत्परिषद् सदस्यौ डॉ०दामोदर परगाईं महोदय डॉ०कञ्चन तिवारी महोदय संस्कृतानुरागिण विद्वांसः शास्त्राध्ययनशीला छात्राश्च समुपस्थिता आसन् ।
वर्गस्यसमय - प्रतिदिनं सायंकाले 4 30 वादनतः 7 00 वादनपर्यन्तम्
वन्दे शास्त्रपरम्पराम्।
वन्दे संस्कृतमातरम्।.
- Post By : Uttarakhand
- |
- 24-04-2023
- |





























