मैसूरु विश्वविद्यानिलयः संस्कृतभारती अनयोः संयुक्ताश्रये सम्भाषणशिबिरमेकं सुसम्पन्नम्।
मैसूरु विश्वविद्यानिलयः संस्कृतभारती अनयोः संयुक्ताश्रये दि।२५•०१•२०१९ तः ०४•०२•२०१९ पर्यन्तं सम्भाषणशिबिरमेकं सुसम्पन्नम्। ०४ दिनाङ्के अस्य शिबिरस्य समारोप कार्यक्रमः अभवत्। अस्मिन् कार्यक्रमे अद्यक्षरूपेण मैसूरु विश्वविद्यानिलयस्य कुलपतिवर्यः प्रो।। हेमन्तकुमारवर्यः आसीत् । एवमवदन्नपि प्रतिवर्षं अस्मिन् विभागे ३वा ४ सम्भाषणशिबिराणि भवन्तु धनसहाय्यं वि।वि।येन दीयते। समाजे संस्कृतस्य संस्कृत्याः पुनरुत्थानस्य प्रचारः भवतु इति। अतिथित्वेन कर्णाटकदक्षिणप्रान्ताद्यक्षः विद्वान् टि।एन्।प्रभाकरवर्यः आसीत् । संस्कृतप्रसाराय संस्कृतभारती सर्वदा सिद्धा अस्ति। तस्याः विविधप्रकाराणां योजनानां उपयोगः नागरिकाः स्वाकुर्वन्तः अन्येभ्यः वदन्तुच। मै।वि।वि। संस्कृताध्ययनविभागस्य अद्यक्षः डा।। के।नारायणभट्टवर्योपि आसीत् । एवमुक्तमपि तेन संस्कृतभाषायाः प्रयोजनं नकेवलं अत्र पठितारःस्नातक/शोधछात्राः नागरिकाः अपि स्वीकर्तुं शक्नुवन्ति। वयं बोधनस्य व्यवस्थां कल्पयामः इति। कार्यक्रमे विविधाः सांस्कृतिक कार्यक्रमाः आसन्। कार्यक्रमे उप ७० जनाः आसन्। शिबिरेस्मिन् उप ५० शिबिरार्थिनः आसन्। २० जनाः प्रवेश परीक्षां स्वीकृतवन्तः। तत्स्थानम् इतःपरं संस्कृतभारत्याः प्रवेशपाठनकेन्द्रं साप्ताहिकमेलनकेन्द्रं च। तत्रत्याः उपन्यासकाः एव प्रवेशपाठकाः।..
- Post By : South Karnataka
- |
- 07-03-2019
- |


























