Top
Samskrita Bharati - Utkal
संस्कृतभारती - उत्कल
Latest Media & News
Preview Media & News

प्रान्तसमेलनम् - 2022
सर्वेभ्यः कार्यकर्तृभ्यः अभिनन्दनम् ।
वयम् आवर्षं संस्कृतमातुः सेवनं विविधकार्यक्रमाणां माध्यमेन कुर्वन्तः स्मः । स्वस्थानीयस्तरे विविधशैक्षणिकसामाजिककार्यक्रमाणाम् आयोजनं कृत्वा संस्कृतभाषायाः प्रचारे संलग्नाः स्मः । अस्मत्सदृशाः सहस्रशः जनाः स्वसमयप्रतिभादीनां समर्पणं कृत्वा संस्कृतं सेवमानाः सन्ति । कोरोनामहामारिकारणात् कार्यकर्तॄणां परस्परं मेलनम् अथवा प्रवासकरणम् अशक्यम् आसीत् परन्तु अधुना स्थितिः सम्यक् जायमाना अस्ति अतः संस्कृतभारती उत्कलः प्रान्ते संस्कृतं सेवमानानां सर्वेषां कार्यकर्तॄणाम् एकं मेलनम् आयोजयति । यत्र ग्रामसमितितः प्रान्तपर्यन्तः सवेऽपि दायित्ववन्तः कार्यकर्तारः समागमिष्यन्ति । संस्कृतभारत्याः अखिलभारतकार्यकर्तॄणां मार्गदर्शनम् अस्मिन् मेलने भविष्यति ।
आगम्यतां सम्मिल्यतां संस्कृताय समयः दीयताम् ।
मेलनस्थानम् - सरस्वतीशिशुविद्यामन्दिरम् सेक्टर ६ राउरकेला सुन्दरगड़म्
मेलनदिनाङ्कः - 09 अप्रैल 2022 सायंकालतः 10 अप्रैल 2022 अपराह्णपर्यन्तम्
सर्वेषाम् अपि कार्यकर्तॄणां हार्दं स्वागतम् अस्ति अस्मिन् कार्यक्रमे ।.


  • Post By : Utkal
  • |
  • 06-04-2022
  • |