सर्वेषां हार्दं स्वागतम् तेलड़्गाण-प्रान्त-संस्कृत- सम्मेलनम् प्रति
स्थानम् - ऒयासिस-उन्नत-पाठशाला नारायणम्मा महिला इंजनीरिंग कलाशाला पार्श्व रायदुर्गम् षेक्पेट् भाग्यनगरम् |
दिनाड़्कः - कलियुगाब्दः ५११९ श्रीविलम्बिनामसंवत्सरः पुष्य-शुक्ल-त्रयोदशी-चतुर्दशी च २०१९ जनवरि १९ २० शनिभानुवासरौ
सर्वेषां हार्दं स्वागतम् --
भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा | भा़षा संस्कृतिः च परस्परपूरके | नित्यजीवने वैज्ञानिकाधारितै आचारसम्प्रदायैः स्वीयसंस्कृतेःनिर्माणं कृतवतां भारतीयानां स्थानं प्रपञ्चे एव विशिष्टम् |
ते वैज्ञानिकविषयाः सर्वे संस्कृतभा़षयां लिसितेषु प्राचीनग्रन्थेषुनिक्षिप्ताः इति निर्विवादांशः | परन्तु विदेशीयानां परिपालने संस्कृतात् दूरीकृता वयं स्वातन्त्रयप्राप्तेः पश्चादपि संस्कृतं राजाभा़षात्वेन पुनस्थापयितुमशक्ताः | तस्य कारणं संविधानरचनाकाले संस्कृतस्य समर्थनं कर्तुं काचित् सड़्घटितशक्तिः नासीत् इत्येव |अतः एव संस्कृतभारती संस्कृतज्ञानां सड़्घटने गतेभ्यः ३८ वर्षभ्यः रता | अस्मिन् वर्षे प्रतिप्रान्तं प्रान्तसंस्कृतसम्मेलनम् आयोजयि़ष्यते | अस्मैसम्मेलनाय संस्कृतकार्यकर्तारः संस्कृताभिमानिनः च भवन्तः सर्वे सामाहूयन्ते |
व्यवस्था - सम्मेलनस्थाने एव सर्वविधभोजनावासव्यवस्था भविष्यति | जनवरि १८ सायं ७ वादनतः २० सायं ७ वादनपर्यन्तं व्यवस्था भविष्यति | सर्वे जनवरि १९ प्रातः ८ वादनात् पूर्वम् वर्गस्थानम् आगच्छेयुः | जनवरि २० सायं ६ वादनानन्तरं गन्तुं शक्यते | महिलानां व्यवस्था पृथक् भविता | सम्मेलनार्थम् इच्छुकाः सम्मेलनप्रतिनिधिशुल्कं १५ रूप्यकाणि प्रान्तकार्यालयं प्रेषयेयुः अथवा सम्मेलनस्थाने दत्वा पञ्जीकरणं कुर्युः |
अखण्डसंस्कृतवातावरणम् | विभिन्नज्येष्ठानां मार्गदर्शनम् | चर्चागोष्ठ्यः | क्रीडोत्सवः | शोभायात्रा | विविधप्रदर्शिन्यः | पुस्तकलोकार्पणम् इत्यादि भविता |.
- Post By : Telangana
- |
- 30-12-2018
- |






.jpg)
.jpg)



.jpg)




.jpg)



.jpeg)




