Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

संस्कृतभारत्याः अखिलभारतीयगोष्ठी 16-09-24 दिनांके सम्पन्ना।
संस्कृतभारत्याः अखिलभारतीयगोष्ठी 16-09-24 दिनांके सम्पन्ना।
हरिद्वारम् - संस्कृतं वैश्विकस्तरे समुन्नेतुं प्रतिपदं प्रयतमानया संस्कृतभारत्या विहितकार्याणां समीक्षायै आगामियोजनानां लक्ष्याणां च साफल्याय च समायोजितायाः अखिलभारतीयगोष्ठ्याः समारोहः जातः । समापनसत्रात्प्राक् उद्देश्यानि गुणवत्तां नवाचारांश्च समाधृत्य महत्वपूर्णे सत्रत्रये विभिन्नकार्याणि समाधातुं विभागैः, आयामैः प्रकल्पैश्च सम्बद्धविषयेषु विस्तृतचर्चा जाता। तत्र अधिकारिभिः सदस्यैश्च गहनतया विचारो विमर्शश्च कृतः।
प्रथमे सत्रे अखिलभारतीयाध्यक्षः प्रो गोपबन्धुमिश्रः, महामन्त्री सत्यनारायणभट्टः प्रचारप्रमुखः श्रीशदेवपुजारी च गतम् आगामिनं च वृत्तम् आधृत्य स्वीयविचारैः प्रान्तप्रतिनिधीनाम् अभिमुखीकरणम् अकुर्वन्। अवसाने च अखिलभारतीय सङ्घटनमन्त्री दिनेशकामतः नूतनाम् ऊर्जां सञ्चारयितुं, दायित्वविस्तारं कर्तुं कार्येषु गुणवत्तां समाधातुं च नूतनपदाधिकारिणाम् अखिलभारतीयं प्रान्तीयं च दायित्वम् घोषितवान् यत् अखिलभारतीयस्तरे दिनेशकामतः उपाध्यक्षः, जयप्रकाशगौतमः सङ्घटन मन्त्री , श्रीमान् दत्तात्रेयः सहसङ्घटनमन्त्री ,श्रीरामः प्रशिक्षणप्रमुखः, शिरीषदेवपुजारी गीताशिक्षणप्रमुखः, सचिनकठाले प्रचारप्रमुखः ,प्रो० लक्ष्मीनिवासपाण्डेयः विद्वत्परिषद्प्रमुखः इत्यादिभिः सममेव प्रान्तीयस्तरे डा० हरीश चन्द्रगुरुरानी पश्चिमोत्तरस्य प्रान्तमन्त्री, प्रो.दिनेशचन्द्रशास्त्री उत्तराञ्चलप्रान्तस्य अध्यक्षः, डॉ० वेदव्रत प्रान्तसहमन्त्री जानकीत्रिपाठी प्रान्तसमितिसदस्या च ।
द्वितीयसत्रे विभागैः, आयामैः प्रकल्पैश्च सम्बद्धा विचारगोष्ठ्यः अजायन्त। तत्र कार्यविस्तारं नूतनानां सहभागितां समाधृत्य जनबलं वर्धयितुं दायित्ववतांऊ पदाधिकारिणां चर्चासत्रं गणशः समायोजितम्। तत्र विहितकार्याणां वृत्तं, सम्भावितकार्यविस्तरणं, जनसहभागितावर्धनं च सविशेषं समुपस्थितैः ज्यैष्ठानां मार्गदर्शने दायित्ववद्भिः चर्चितं परामृष्टं विचारितं च । अमुष्मिन्नवसरे प्रान्तप्रतिनिधयः, न्यासिनः, प्रान्तविभागस्तरीयाधिकारिणः, विविधव्यवस्थाप्रमुखाः, सहयोगिसंस्थानां व्यक्तिसंसाधकाः , पूर्वपदाधिकारिणः, सहयोगिनः, विभिन्नसंस्थाभ्यो, विद्यालयेभ्यो, महाविद्यालयेभ्यो, विश्वविद्यालयेभ्यश्च कुलपतयः, प्रवक्तारो प्राध्यापकाः , शिक्षकाः , शिक्षार्थिनः, कार्यकर्तारः, संस्कृतानुरागिणः सामाजिकाः भ्रातरो भगिन्यश्च समुपस्थिताः आसन्।
वन्दे संस्कृतमातरम्।.


  • Post By : Uttarakhand
  • |
  • 17-09-2024
  • |