Latest Media & News
Preview Media & News

कर्णावतीनगरे एकादशस्थानेषु सम्भाषणशिबिराभियानम्
गुजराते अहमदावादनगरे जुलाईमासस्य 21 दिनाङ्कतः 30 पर्यन्तं अहमदावादनगरे 11 स्थानेषु सामाजिक-संभाषणशिबिराभियानं अभवत् । एतस्मिन् शिबिराभियाने भिन्नभिन्नक्षेत्रेषु कार्यं कुर्वन्तः 240 सामाजिकजनाः
उत्साहेन भागं गृहितवन्तः । संभाषणशिबिराणां समापनं शिबिरस्थानेषु एव अभवत् । समापनकार्यक्रमे लघुनाटकं अनुभवकथनं लघुसंभाषणं इत्यादयः कार्यक्रमाः जाताः ।.
- Post By : Gujrat
- |
- 21-10-2018
- |