Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

हिमाचलप्रदेशस्य मण्डीनगरे सरदारपटेलविश्वविद्यालयस्य एवं च वल्लभ-राजकीयमहाविद्यालस्य संयु
01/08/2022 दिनाङ्कात् हिमाचलप्रदेशस्य मण्डीनगरे सरदारपटेलविश्वविद्यालयस्य एवं च वल्लभ-राजकीयमहाविद्यालस्य संस्कृतविभागयोः संयुक्ततत्त्वावधाने दशदिवसीयसंस्कृतसम्भाषणशिबिरस्य शुभारम्भः अभूत् । शुभारम्भावसरे मुख्यातिथिरूपेण विश्वविद्यालयस्य कुलपतिः प्रो.देवदत्तशर्ममहोदयः विशिष्टातिथिरूपेण च महाविद्यालयस्य प्राचार्यः डा.वाई.पी.शर्ममहोदयः उपस्थितौ आस्ताम् । अवसरे अस्मिन् डा.राजेशशर्मा सहाचार्या सीमाबावा आचार्या निशावैद्या सहाचार्या पूनममहोदया शिशुबाला सहायकाचार्या ज्योतिः डा.बन्दनाधाण्टा डा.सुमनभारद्वाजः बन्दनाचौहानः विश्वविद्यालयस्य सर्वे अपि प्राध्यापकाः उपस्थिताः आसन् । कार्यक्रमे शिबिरार्थिरूपेण 80 छात्राः भागं गृह्णन्तः सन्ति । संस्कृतभारतीप्रान्तपक्षतः डा.ज्ञानेश्वरमहोदयः शिबिरशिक्षकरूपेण च श्रीधीरजकुमारः श्रीकेवलमहोदयः उपस्थिताः आसन् । शिबिरस्य अस्य समाप्तिः 11/08/2022 दिनाङ्के भविष्यति ।.


  • Post By : Himachal Pradesh
  • |
  • 25-08-2022
  • |