Top
Samskrita Bharati - Gujrat
संस्कृतभारती - गुजरात
Latest Media & News
Preview Media & News

दाहोदनगरे जनपदसंस्कृतसम्मेलनं सम्पन्नम् 
फरवरीमासस्य २७ दिनाङ्के गुजरातस्य  दाहोदनगरे जनपदसंस्कृतसम्मेलनं सम्पन्नम्  | 

जिलामाध्यमिकशिक्षाधिकारी श्री बी.एम्.नीनामा जिलाप्राथमिकशिक्षाधिकारी श्री एन्.जी.व्यास: संस्कृतभारत्या: प्रान्तसङ्घटनमन्त्री श्री हिमाञ्जय: पालीवाल: च विशेषत: उपस्थाय दीपप्राकट्येन सम्मेलनस्य उद्घाटनम् अकुर्वन् |  नगरस्य लब्धप्रतिष्ठित: बुद्धिजीवी श्री शरद: देसाईमहोदय: सम्मेलनस्वागतसमिते: अध्यक्ष: आसीत्  तेन संस्कृतभाषया प्रास्ताविकभाषणं कृतम्  |
  

                      श्रीमता व्यासमहोदयेन संस्कृतस्य महत्त्वं संस्कृतेन वदन् उक्तं यत् " संस्कृतं न केवलम् एकं पाठ्यपुस्तकम्  न च केवलं पाठ्यविषय:   संस्कृते तु ज्ञानस्य अपार: भाण्डार: विद्यते अत: अस्माभि: अवश्यं संस्कृतं पठनीयम् " |  प्रान्तसङ्घटनमन्त्रिणा हिमाञ्जयमहोदयेन उक्तं यत् "अद्यत्वे वयम् एकाम् अपि भारतीयभाषां पूर्णरूपेण व्यवहारे न वदाम: सर्वत्र सर्वभाषासु फारसी -आङ्ग्ल अन्यभाषाणां वा शब्दा: प्रविष्टा: सन्ति |
यदि वयं संस्कृताध्ययनं करिष्याम: तर्हि एषा समस्या अपह्रता भविष्यति  |  अन्ते च जिलामाध्यमिकशिक्षणाधिकारिणा अपि स्वीये भाषणे संस्कृतं पठितुम् इच्छां प्रकटयन् उक्तं यत्  " प्राथमिकविभागात् आरभ्य उच्चमाध्यमिकविभागपर्यन्तं सर्वेषा संस्कतशिक्षकाणां प्रशिक्षणं भवेत् संस्कृतं कथं पाठनीयम् इत्यस्य तदर्थं प्रशासनम् अपि पूर्णं सहयोगं करिष्यति " इति  |


                 सम्मेलनेऽस्मिन् संस्कृतगरबा अभिनयगीतम् गीतगानम् इत्यादय: विविधा: सांस्कृतिककार्यक्रमा:  संस्कृतसम्भाषणशिबिरकक्षानिदर्शनं च सम्मेलनभागभूतेषु अतीव हर्षम् अजनयत्  | विशेषत: उम्मेसलमा शकिना च इति द्वाभ्यां  बालिकाभ्यां

  यत्र च बाला देवी स्वरूपा बाला: सर्वे श्रीरामा:   इति गीतं माधुर्येण  गीतं तदा तत्रत्यं वातावरणम् अतीव भावपूर्णं जातम्  अस्मिन् अवसरे तयो: अभिभावका: अपि सभागृहे उपस्थिता: आसन् |त्रिशताधिका: जना: सम्मेलने भागम् ऊढवन्त: |



      * सम्मेलनस्य अङ्गतया एव पूर्वदिने २६ दिनाङ्के संस्कृतशिक्षककार्यशाला अपि आयोजिता आसीत् यत्र च एकाशीति: शिक्षका: भागं गृहीतवन्त: | .


  • Post By : Gujrat
  • |
  • 21-10-2018
  • |