अखिलभारतीया वैयाकरणी विदुषीणां शास्त्रार्थसंगोष्ठी दिनाङ्क - ०३.११.२०२२
संस्कृतभारत्या आन्ध्रप्रदेशप्रान्तस्य विद्वत्परिषद श्रीमल्लिनाथसूरिविद्वत्परिषदश्च संयुक्ततत्त्वावधाने ०३.११.२०२२ दिनाङ्के अखिलभारतीया विदुषीणां वैयाकरणी शास्त्रार्थगोष्ठी अन्तर्जालमाध्यमेन समायोज्यत । विदुषां शास्त्रार्थसभा बहुधा लोके श्रूयन्ते । परं विदुषीणां शास्त्रार्थविचारप्रस्तुति अतिदुर्लभा । लोके विविधशास्त्राणि अध्येत्र्य विदुष्य पुरा कालात् विराजन्ते । अत तासां व्याकरणविदुषीणां शास्त्रार्थविचारप्रस्तुतिदृष्ट्या लोकानां पुरत उपस्थापनार्थं गोष्ठीयं समायोज्यत । कार्यक्रमस्य आरम्भे कुमारी आर्.प्रियंवदा लौकिकप्रार्थनां विहितवती । तत्र गोष्ठ्यां पुरीस्थस्य श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य व्याकरणविभागे कार्यं कुर्वणा श्रीमती विदुषी डा. प्रज्ञाशर्मा “संज्ञापरिभाषयो यथोद्देशकार्यकालपक्षविषये प्राचीननव्ययो विप्रतिपत्ति ” इति शीर्षकमुपलक्ष्य स्वशास्त्रार्थविचारं प्रास्तौत् । बेङ्गळूरुनगरस्थायां ज्ञानदीपशालायां नृत्यशिक्षिकात्वेन कार्यं कुर्वणा कु. श्रतिबसवराज “कृत्तद्धितसमसाश्च” इति संज्ञासूत्रमधिकृत्य स्वविचारं प्रास्तवीत् । तथा च रामटेकस्थकविकुलगुरु-कालिदससंस्कृतविश्वविद्यालयस्य व्याकरणविभागस्य आचार्यच्छात्रा कुमारी सिमरनठाकुर “कर्मवत्कर्मणा तुल्यक्रिय ” इति अतिदेशसूत्रमभिलक्ष्य गभीरविषयं प्रास्तौत् । एवमेव राष्ट्रियसंस्कृतविश्वविद्यालयस्य व्याकरणविभागस्य आचार्यच्छात्रा कुमारी मैत्रेयी आर्या “स्थानिवदादेशोऽनल्विधौ” इति अतिदेशसूत्रमधिकृत्य स्वविचारान् प्रास्तावीत् । तत राष्ट्रियसंस्कृतविश्वविद्यालयस्य व्याकरणविभागस्य आचार्यच्छात्रा कुमारी ऐन्दवी आर्या “आद्यन्तौ टकितौ” इति परिभाषासूत्रमधिकृत्य यथाभाष्यं निरूपितवती । अस्या गोष्ठ्या आध्यक्षपदम् अलङ्कृतवती राष्ट्रियसंस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविभागस्य आचार्या श्रीमती के. कादम्बिनीमहाभागा । कार्यक्रमस्य संचालनं विद्वत्परिषद प्रमुखेण डा. शिवरामभट्टमहोदयेन कृतम् । तान्त्रिकसाह्यम् आन्ध्रप्रदेशस्य प्रान्तप्रचारप्रमुखेण डा. कुमारबागेवाडीमठमहोदयेन कृतम् । अस्मिन् कार्यक्रमे आहत्य ७० सहभागिन भागम् स्वीकृतवन्त ।
YouTube Link - https //youtu.be/xfwDTtRENs0.
- Post By : Andhra Pradesh
- |
- 16-01-2023
- |








.jpeg)